Table of Contents

<<2-4-8 —- 2-4-10>>

2-4-9 येषां च विरोधः शाश्वतिकः

प्रथमावृत्तिः

TBD.

काशिका

विरोधो वैरम्। शाश्वतिको नित्यः। येषां शाश्वतिको विरोधः तद्वाचिनां शब्दानां द्वन्द्व एकवद् भवति। मार्जारमूषकं। अहिनकुलम्। शाश्वतिकः इति किम्? गौपालिशालङ्कायनाः कलहायन्ते। चकारः पुनरस्य एव समुच्चयार्थः। तेन पशुशकुनिद्वन्द्वे विरोधिनाम् अनेन नित्यम् एकवद् भावो भवति अश्वमहिषम्। श्वशृगालम्। काकोलूकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

903 येषां च। शेषपूरणेन सूत्रं व्याचष्टे–एषां प्राग्वदिति। समाहारद्वन्द्व एकवदित्यर्थः। `श\उfffदा'दित्यव्ययं सदेत्यर्थे वर्तते। ततो भवार्थे ठञ्। निपातनादव्ययानां भमात्रे टिलोपः, `इसुसुक्तान्तात्कः' इति कादेशस्च न भवति। स्वाभाविक इत्यर्थः। अहिनकुलमिति। अहयो नकुलाश्चेति विग्रहः। अनयोः स्वभाविको विरोधः प्रसिद्धः। विरोधो–वैरं, नतु सहानवस्थितिः तेन छायातपावित्यत्र न भवति। `देवाऽसुराः' इत्यत्र तु नायमेकवद्भावः, तद्विरोधस्य कादाचित्कत्वात्। अमृतादिप्रयुक्तः कादाचित्क एव हि तेषां विरोधः, अमृतमथनादि काले तेषां विरोधाऽभावात्। ननु `विभाषा वृक्षमृगे'ति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते। तस्य तावद्गोमहिषु गोमहिषाः, हंसचक्रवाकं, हंसचक्रवाका इत्यत्रावकाशः। `येषां चे'त्यस्य-अहिनकुलमित्यवकाशः गोव्याघ्रं काकोलूकमित्यादौ तदुभयं प्रसक्तम्। तत्र परत्वाद्क्ष्यमाणविभाषा प्राप्नोतीत्याशङ्क्याह–गोव्याघ्रमिति। चकारेणेति। `येषां चे'ति चकारेणेत्यर्थः। एतच्च भाष्ये स्पष्टम्।

तत्त्वबोधिनी

779 येषां च विरोधः। विरोधो वैरं, न तु सहानवस्थानम्। तेनेह न—छायातपौ। `श\उfffदा'दित्यव्ययं त्रैकाल्ये वर्तते, तत्र भवः शा\उfffदातिकः। `कालाठ्ठञ्'। अतएव निपातनात् `इसुसुक्तान्ता'दिति कादेशः, `अव्ययानां भमात्रे'इति इति टिलोपश्च न। शा\उfffदातिकः किम्?। देवासुरैरमृतमम्बुनिधिर्ममन्थे'। तेषां ह्रमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात्। परत्वादिति। पशुशकुनिद्वन्द्वस्यावकाशो–गोमहिषं गोमहिषाः। हंसचक्रवाकं हंसचक्रवाकाः। `येषां चे'त्यस्यावकाशः–मार्जारमूषकं श्रमणब्राआहृणमित्यादौ ज्ञेयः। चकारेण बाध्यत इति। चकारः पुनर्विधायक इति भावः।

Satishji's सूत्र-सूचिः

TBD.