Table of Contents

<<2-4-9 —- 2-4-11>>

2-4-10 शूद्राणाम् अनिरवसितानाम्

प्रथमावृत्तिः

TBD.

काशिका

निरवसानं बहिष्करणम्। कुतो बहिष्करणम्? पात्रात्। यैर् भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः। न निरवसिताः अनिरवसिताः। अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद् भवति। तक्षायस्कारम्। रजकतन्तुबायम्। अनिरवसितानाम् इति किम्? चण्डालमृतपाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

904 शूद्राणाम्। `अनिरवसित'शब्दं व्याचष्टे–अबहिष्कृतानामिति। `यैर्भुक्तं पात्रं क्षारोदकप्रक्षालनेन संस्कारेणापि न शुध्यत ते निरवसिताः,–चण्डालादयः। यैस्तु भुक्तं पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः'इति भाष्ये स्पष्टम्य। शूद्राणामिति।त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः, `अनिरवसिताना'मिति लिङ्गात्। प्राग्वदिति। समाहरद्वन्द्व एकवदित्यर्थः। तक्षायस्कारमिति। तक्षाणश्च अयस्काराश्चेति विग्रहः। `अनिरवसिताना'मित्यस्य प्रयोजनमाह–पात्रादिति। चण्डालमृतपा इति। #एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति-अत एव भाष्याद्विज्ञेयम्। धर्मशात्रेषु च प्रसिद्धमेतत्।

तत्त्वबोधिनी

780 शूद्राणां। `त्रैवर्णिकेतरमनुष्यपरः शूद्रशब्दो न तु शूद्रत्वजातिपरः, `अनिरवसिताना'मिति निषेधात्। पात्रादिति। यैर्भुक्ते`भस्मना शुध्यते कांस्य'मित्यादिस्मृत्युक्तसंस्कारेणापि पात्रं न शुध्यति तेषामित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.