Table of Contents

<<2-4-7 —- 2-4-9>>

2-4-8 क्षुद्रजन्तवः

प्रथमावृत्तिः

TBD.

काशिका

अपचितपरिमाणः क्षुद्रः। क्ष्रुद्र जन्तुवाचिनां द्वन्द्वः एकवद् भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तवः इति किम्? ब्राह्मणक्षत्रियौ। क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः। शतं वा प्रसुऋतौ येषां केचिदा नकुलादपि। आ नकुलादपि इति इयम् एव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

902 क्षुद्रजन्तवः। एतेषां द्वन्द्व एकबदित्यर्थः। फलितमाह–एषां समाहारे [एव ]द्वन्द्व इति। यूकालिक्षमिति। यूकाश्च लिक्षाश्चेति विग्रहः। केशबहुले शिरःप्रदेसे स्वेदजा जन्तविशेषा यूकाः। लिक्षाश्च प्रसिद्धाः। एकवत्त्वं, नपुंसकह्यस्वत्वं च। आ नकुलादिति। `नकुलपर्यन्ताः क्षुद्रजन्तवः' इति भाष्यादिति भावः।

तत्त्वबोधिनी

778 क्षुद्र। अपचितपरिमाणत्वं क्षुद्रत्वम्। तच्चापेक्षिकत्वादनवस्थितम्। यच्च स्मर्यते—`क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः। शतं वा प्रसृतौ येषां, केचिदानकुलादपि'इति। तत्र सर्वपक्षसाधारण्येनोदाहरति–यूकालिक्षमिति। आ नकुलादिति। नकुलपर्यन्ता इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.