Table of Contents

<<2-4-6 —- 2-4-8>>

2-4-7 विशिष्टलिङ्गो नदी देशो ऽग्रामाः

प्रथमावृत्तिः

TBD.

काशिका

विशिष्तलिङ्गानां भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवचिनां च ग्रामवर्जितानं द्वन्द्व एकवद् भवति। नद्यवयवो द्वन्द्वो नदी इत्युच्यते। देशावयवश्च देशः। नदी देशः इत्यसमासनिर्देश एव अयम्। उद्ध्यश्च इरावती च उद्ध्येरावति। गङ्गाशोणम्। देशः खल्वपि कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्। कुरुकुरुजाङ्गलम्। विशिष्टलिङ्गः इति किम्? गङ्गायमुने। मद्रकेकयाः। नदी देशः इति किम्? कुक्कुटमयूर्यौ। अग्रामाः इति किम्? जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ। नदीग्रहणमदेशत्वात्। जनपदो हि देशः। तथा च पर्वतानां ग्रहणं न भवति, कैलासश्च गन्धमादनं च कैलासगन्धमादने। अग्रामा इत्यत्र नगरानां प्रतिषेधो वक्तव्यः। इह मा भूत्, मथुरा च पाटलिपुत्रं च मथुरापाटलिपुत्रम्। उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः। सौर्यं च नगरं, केतवतं च ग्रामः सौर्यकेतवते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

901 विसिष्टलिङ्गो नदीदेशोऽग्रामाः। अग्रामा' इति च्छेदः। व्यत्ययेन बहुत्वे एकवचनम्। विपूर्वकशिषधातुर्भेदेवर्तते `विशेषणं विशेष्येणे'त्यादौ यथा। विशिष्टं लिङ्गं येषामिति विग्रहः। तथा च ग्रामवाचकभिन्ना भिन्नलिङ्गका ये नदीवाचिनो, ये देशवाचिनश्च तेषा द्विन्द्व एकवत्स्यादिति लभ्यते। तदाह–ग्रामवर्जेति। समाहारे द्वन्द्वः स्यादिति। एकवत्त्वविधेः फलाभिप्रायमेतत्। अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्थताया अनुपदमेवोक्तत्वात्। उद्द्यश्चेति। उद्ध्यो ना नदविशेषः। इरावती नाम कचिन्नदी। तयोर्नदीविशेषवाचकत्वादेकवत्त्वम्, नदीशब्देन नदस्यापि ग्रहणात्, अन्यथा भिन्नलिङ्गत्वाऽसम्भवादिति भावः। जाम्बवशालूकिन्याविति। `अग्रामाः' इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः। अयं च द्वन्द्वे नगरग्रामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः।

तत्त्वबोधिनी

777 विशिष्टलिङ्गो। सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणाऽवयविद्वन्द्वे वर्तन्त इत्याशयेनाह—ग्रामेत्यादि। इह `नदीवाचिनां द्वन्द्वः, `देशवाचिनां द्वन्द्व' इति वाक्यभेदेन व्याख्येयम्। तेन `गङ्गाकुरुक्षेत्रे'इत्यत्र न भवति। देशशब्देनात्र प्रसिद्ध एव जनपदो गृह्रते, नद्याः पृथग्ग्रहणात्। तेन पर्वतानां न, कैलासश्च गन्धमादनं च कैलासगन्धमादने। नदीदेश इति किम्?। कुक्कुट मयूर्यौ। विशिष्टपदस्यऽर्थमाह—भिन्नलिङ्गानामिति। विपूर्वो हि शिषिर्भेदार्थः। अतएव `विशेषणं विश्ष्येणे'ति सूत्रे भेदकं भेद्येनेति व्याख्यातम्। समाहारे द्वन्द्वः स्यादिति। निष्कर्षाभिप्रायेणेयमुक्तः। यथाश्रुताभिप्रायेण तु `द्वन्द्व एकवत्स्या'दिति केषु चित्सूत्रेषु व्याख्यायत इति ज्ञेयम्। उद्ध्येरावतीति। उव्द्यो नदः, सोऽपि नदीविशेषत्वान्नदीशब्देन गृहीतः। एवं शोणोऽपि। `अग्रामा इत्यत्र नगरप्रतिषेधो वक्तव्यः'। तेन `मथुरापाटलिपुत्र'मित्यत्र निषेधो न भवति, उभयोरपि नगरत्वात्।

Satishji's सूत्र-सूचिः

TBD.