Table of Contents

<<2-4-5 —- 2-4-7>>

2-4-6 जातिरप्राणिनाम्

प्रथमावृत्तिः

TBD.

काशिका

जातिवाचिनां शब्दानां द्वन्द्व एकवद् भवति प्राणिनो वर्जयित्वा। आराशस्त्रि। धानाशष्कुलि। जातिः इति किम्? नन्दकपाञ्चजन्यौ। अप्राणिनाम् इति किम्? ब्राह्मणक्षत्रियविट्शूद्राः। नञिवयुक्तन्यायेन द्रव्यजातीनाम् अयम् एकवद्भावः, न गुणक्रियाजातीनाम्। रूपरसगन्धस्पर्शाः। गमनाकुञ्चनप्रसारणानि। जाति परत्वे च जातिशब्दानाम् अयम् एकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम् इह कुण्डे बदरामलकानि तिष्ठन्ति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

900 जातिरप्राणिनां। `जाति'रिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा जातिवाचिनामित्यर्थः। धानाशुष्कुलीति। धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः। जातिवाचित्वादेकवत्त्वम्, नपुंसकत्वाद्ध्रस्व इति भावः। विट्छूद्रा इति। विशश्च शूद्राश्चेति विग्रहः। द्रव्यजातीयानामेवेति। `अप्राणिना'मिति पर्युदासे सति नञिवयुक्तन्यायादिदं लभ्यत इति भावः। रूपरसाविति। गुणगतजातिवचावेतौ। गमनाकुञ्चने इति। क्रियागतजातिविशेषवाचिनावेतौ। ननु बदर्याः फलानि बदरामि, आमलक्याः फलान्यामलकानि। `फले लु'गिति विकारप्रत्ययस्य लुकि `लुक्तद्धितलुकी'ति स्त्रीप्रत्ययस्य लुक्। फलत्वव्याप्यजातिविशेषवाचिनावेतौ। ततश्च बदराणि चामलकानि च बदरामलकं, बदरामलकानीति कथं रूपद्वयम् ?, `जातिरप्राणिना'मित्येकवत्त्वस्य नित्यत्वादित्यत आह–जाति प्राधान्ये इति। व्यक्तिविशेषाऽनादरेण सकलतत्तद्व्यक्त्यनुस्यूतजातिविवक्षायामित्यर्थः। `घटमानये'त्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः। जातेश्च निराश्रयाया उपस्थित्यसंभवादाश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात्कृत्स्नाप्युपस्थिता। तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्तमानकृत्स्नव्यक्तीनां च क्रियान्वयाऽसंभवाद्ध्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति। इदमेव च जातेः प्राधान्यं, तत्तज्जात्याश्रयसकलतत्तद्व्यक्तिबोधकत्वात्मकम्। `घटाः शुक्लाः' इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवसाद्व्यक्तिविशेषामेव जातिरुपस्थापयतीति जातेरप्रधान्यम्, जात्याश्रयसकलव्यक्त्यनुपस्थधापकत्वादिति `तस्यादितः' इति सूत्रे कैयटे स्पष्टम्। ततश्च फलत्वव्याप्यया बदरत्वजात्या, आमलकत्वजात्या चाऽविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमित्येकवद्भावः। द्रव्यविशेषेति। `आरण्यानि बदरामलकानी'त्यादौ फलत्वव्याप्यबदरत्वामलकत्वादिजातिभ्यामारण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः, ग्राम्याणां व्यक्तीनामनुपस्थितेस्तयोर्जात्योरप्राधान्यान्ना।डयमेकवद्बाव इत्यर्थः। `क्षीरोदके संपृक्ते'इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः।

तत्त्वबोधिनी

776 जातिर। जातिवाच्यवयवकद्वन्द्वोऽपि जातिरित्युपचर्यत इत्याशयेनाह– जातिवाचिनामिति। विट्?शूद्रा इति। जातिप्राधान्येऽपि बहुवचनमुपपद्यते, `जात्याख्यायामेकस्मि'न्निति विधानात्। तेनात्र व्द्यङ्गविकलं नेति भावः। द्रव्यजातीयानामेवेति। `अप्राणिना'मिति पर्युदासात् `नञिवयुक्त न्यायेन द्रव्यजातीयानामेकवद्भावो, न तु गुणक्रियाजातीयानामिति भावः। जातिः किम्?। नन्दकपाञ्चजन्यौ। संज्ञाशब्दावेतौ। जातिप्राधान्य एवेति। एतच्च जातिग्रहणाल्लब्धम्। अन्यथा पर्युदासेनैव जात्युपसर्जनद्रव्यवाचिनोऽपि ग्रहणोपपत्तौः किं तेनेति भावः। द्रव्यविशेषेति। नन्वेवं `रञ्जिता नु विविधास्तरुशैलाः'इति भारविप्रयोगः सङ्गच्छत एवेति किमिति तरुसहिताः शैला इति मनोरमायां समर्थितमिति चेत्। अत्राहुः–सकलतरुशैलरञ्जनं तत्र विवक्षितं, न तु केषांचित्तरुशैलविशेषणामिति जातिप्राधान्यादेकवद्भावमशङ्क्यो तथोक्तमिति। बदरामलकानिति। `फले लु'गिति लुक्। `लुक्तद्धितलुकी'ति स्त्रीप्रत्यस्यापि लुकि फलत्वजात्युपसर्जनद्रव्यवचनावेतौ। `विभाषा वृक्षमृगे'ति सूत्रे बदराणि चामलकानि च बदरामलकम्। `जातिरप्राणिना'मित्येकवद्भाव'इति वक्ष्यति, तत्तु नाऽनेन ग्रन्थेन व#इरुध्यते। `फलत्वजातिवाचिनां बहुवचनान्तानामेव द्वन्द्व एकवद्भवति, न त्वेकवचनान्तां द्वन्द्व' इति `फलसेनावनस्पती'ति वार्तिकोक्तनियममुपेत्य तत्प्रवृत्तेः।

Satishji's सूत्र-सूचिः

TBD.