Table of Contents

<<2-4-4 —- 2-4-6>>

2-4-5 अध्ययनतो ऽविप्रकृष्टाऽख्यानाम्

प्रथमावृत्तिः

TBD.

काशिका

अध्ययनेन निमित्तेन येषाम् अविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद् भवति। पदकक्रमकम्। क्रमकवार्तिकम्। सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः। अध्ययनतः इति किम्? पितापुत्रौ। अविप्रकृष्टाऽख्यानाम् इति किम्? याज्ञैकवैयाकरणौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

899 तदाह–अध्ययनेन प्रत्यासन्नेति। संनिकृष्टेत्यर्थः। पदककक्रमकमिति। पदान्यधीयते पदकाः। क्रमान् अधीयते क्रमकाः। `क्रमादिभ्यो बुन्'। पदकानां क्रमकाणां च समाहर इति विग्रहः। पदाध्ययनानन्तरं क्रमाध्ययनमित्यद्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः। पदक्रममिति नोदाह्मतम्, `जातिरप्राणिना'मित्येव सिद्धेः। तदध्येतृत्वे तु न जातिरिति भावः।

तत्त्वबोधिनी

775 पदकेति। पदान्यधीते पदकः। `क्रमादिभ्यो वुन्'। एवं क्रमकोऽपि। पदान्यधीत्यक्रमोऽद्येतव्य इति स्पष्टा प्रत्यासत्तिः। अध्यनतः किम्?। पितापुत्रौ। अविप्रकृष्टेति किम्?। याज्ञिकनैयायिकौ।

Satishji's सूत्र-सूचिः

TBD.