TBD.
इङो गाङ् विभाषा इति वर्तते। णौ इति इङपेक्षया परसप्तमी, संश्चङोः इति च ण्यपेक्षया। णौ सन्परे चङ्परे च परतः इङो विभाषा गाङादेशो भवति। अधिजिगापयिषति। न च भवति। अध्यापिपयिषति। चङि खल्वपि अध्यजीगपत्। न च भवति। अध्यापिपत्।
TBD.
–
429 णौ च संश्चङोः। विषयसप्तमीयमित्याकरे स्पष्टम्। णौ विवक्षिते इति लभ्यते। `इङश्चे'त्यत इङ इति, `गाङ् लिटी'त्यतो गाङिति, `विभाषा लुङ्लृङो'रित्यतो विभाषेति चानुवर्तते। तदाह – सन्परे चङ्परे चेत्यादि। सन्परे चङ्परे च णौ विवक्षिते इत्यर्थः। अध्यजीगपदिति। णौ इङो गाङादेशे पुकि उपधाह्यस्वे अधि गप् इ अ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्यस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम्। नच `द्वित्वे कार्ये णावजादेशो ने'ति द्वित्वात् प्राग्गाङादेशनिषेधः शङ्क्यः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात्। द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम् `अजादेर्द्वितीयस्ये'ति णिच एव द्वित्व सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डेऽवर्णाऽभावादिति रूपमिति भावः। अध्यापिपदिति। गाङभावे `क्रीङ्जीनां णौ' इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थिते `पी'त्यस्य द्वित्वे रूपमिति भावः। सिध्येतरपारलौकिके। `आदेच उपदेशे' इत्यस्मादादेच इति, `क्रीङ्जीनामित्यस्माण्णाविति चानुवर्तते। तदाह – ऐहलौकिके इत्यादि। अन्नमिति। तन्निष्पादनं तृत्प्यर्थत्वादैहलौकिकमिति भावः। तत्त्वमिति। आत्मस्वरूपमित्यर्थः। सेधयति तापसं तप इति। तत्त्वं निश्चाययतीत्यर्थः। आत्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः।
–
TBD.