Table of Contents

<<2-4-49 —- 2-4-51>>

2-4-50 विभाषा लुङ्लृङोः

प्रथमावृत्तिः

TBD.

काशिका

लुगि ल्\उ0325ङि च परत इङो विभाषा गाङादेशो भवति। आदेशपक्षे गाङ् कुटादिभ्यो ऽञ्णिन् डित् 1-2-1) इति ङित्त्वम्, घुमास्थागापाजहातिसां हलि (*6,4.66 इति ईत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। न च भवति। अध्यैष्ट, अध्यैषाताम्, अध्यैषत। ल्\उ0325ङि खल्वपि अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त। न च भवति। अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

589 इङो गाङ् वा स्यात्..

बालमनोरमा

1136 आगस्त्य। अगस्तयः। कुण्डिना इति। अगस्त्यशब्दादृष्यणो लुक्। प्रकृतेरगस्त्यादेशः। कौण्डिन्यशब्दो गर्गादियञन्तः। बहुत्वे यञो लुक्। प्रकृतेः कुण्डिनादेशश्च। `यस्कादिभ्यो गोत्रे' इत्यारभ्य `आगस्त्यकौण्डिन्ययोः' इत्यन्तं द्वैतीयीकम्। अथ प्रकृतं चातुर्थिकम्-।

तत्त्वबोधिनी

947 आगत्स्य। आगस्त्यशब्दादृष्यण्। , कुण्डिनीशब्दात्तु गर्गाद्यञ। ननु कुण्डिनीशब्दस्य यञि `भस्याढे'इति पुंवद्भावे `नस्तद्धिते'इति टिलोपः प्राप्नोति। न च `संयोगादिश्चे'ति प्रकृतिभावः शङ्क्यः, `अणी'ति तत्रानुवर्तनात्। मैवम्। अस्मादेव निपातनात्तम्याऽप्रवृत्तेः कौण्डिन्यः सिध्यति। चकारस्त्वन्तोदात्तार्थः। मध्योदात्तोहि कुण्डिनीशब्दः। कुण्डमस्त्यस्या इति मत्वर्थीयस्यनेरुदात्तत्वादादेशस्यापि कुण्डिनशब्दस्यान्तरतम्यान्मध्योदात्तत्वात्। अवशिष्टस्य प्रकृतिभागस्येति। न च प्रत्ययविशिष्टस्यादेशमात्रम विधीयतां किं लुग्विधानेनेति वाच्यम्, अगस्तीयाश्छात्रा इत्यनापत्तेः, लुकि हि सति `गोत्रेऽलुगची'ति लुकि प्रतिषिद्धे वृद्धत्वाच्छः सिध्यति। प्रत्ययविशिष्टस्यादेशविधौ तु वृद्धत्वापगमे शौषिको।ञणेन स्यात्। कौण्डिनाश्छात्रा इति तूभयथापि सिद्द्यत्येव। छापवादस्य `कण्वादिभ्यो गोत्रे' इत्यण्?प्रत्ययस्य प्रवृत्त्या तत्र विशेषाऽभावात्।

Satishji's सूत्र-सूचिः

वृत्ति: इङो गाङ् वा स्यात् । When the intention is to add the affix लुँङ् or लृँङ्, the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) optionally takes the substitute “गाङ्”।

उदाहरणम् – अध्यगीष्ट/अध्यैष्ट derived from √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
Note: This धातु: is always preceded by the उपसर्ग: “अधि”।

“गाङ्”-आदेश-पक्षे। Let us first consider the case where the substitute “गाङ्” is used:
अधि गाङ् + लुँङ् 2-4-50, 3-2-110
= अधि गा + ल् 1-3-2, 1-3-3, 1-3-9. Note: पाणिनिः uses ङकारः as a इत् in “गाङ्” so that he may be able to refer to it specifically in the सूत्रम् 1-2-1 गाङ्कुटादिभ्योऽञ्णिन् ङित्।
= अधि गा + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= अधि गा + च्लि + त 3-1-43
= अधि गा + सिँच् + त 3-1-44
= अधि गा + स् + त 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35

Example continued under 1-2-1