Table of Contents

<<2-4-3 —- 2-4-5>>

2-4-4 अध्वर्युक्रतुरनपुंसकम्

प्रथमावृत्तिः

TBD.

काशिका

अध्वर्युवेदे यस्य क्रतोर् विधानं सो ऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानाम् अनपुंसकलिङ्गानां द्वन्द्वः एकवद् भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्वः इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। अध्वर्युक्रतुः इति किम्? इषुवज्रौ। उद्भिद्बलभिदौ। अनपुंसकम् इति किम्? राजसूयवाजपेये। इह कस्मान् न भवति, दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

898 अध्वर्युक्रतुः। अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकजुर्वेदपरः। तदाह– यजुर्वेद इति। अर्का\उfffदामेधमिति। अर्को–महाक्रतुः। अ\उfffदामेधो नाम प्रसिद्धः। उभौ यजुर्वेदविहितक्रतू। अर्कस्य च अ\उfffदामेधस्य च समाहार इति विग्रहः। इषुवज्राविति। क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः। तर्हि कस्मिन्वेदे विहितावित्यत आह–सामेति। राजसूयवाजपेये इति। एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः। राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह–अर्धर्चादी इति। अध्ययनतः। `अविप्रकृष्टाख्याना'मिति च्छेदः। `अध्ययनत' इति तृतीयार्थे तसिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.