TBD.
लिटि परतो ऽदो ऽन्यतरस्यां घस्लादेशो भवति। जघास, जक्षतुः, जक्षुः। आद्, आदतुः, आदुः।
TBD.
555 अदो घसॢ वा स्याल्लिटि. जघास. उपधालोपः..
255 लिट\उfffज्ञतरस्याम्। `अदो जग्धि' रित्यतोऽद इति, `लुङ्सनोर्घस्लृ' इत्यतो घस्लृ इति चानुवर्तते। तदाह–अद इति। आदेशे लृकार इत्। घसादेशोऽत्राऽनिट्। जघासेति। अकित्त्वात् `गमहने'त्युपधालोपो नेति भावः। जघस् अतुसिति स्थिते आह– गमहनेत्युपधालोप इति। `असंयोगा'दिति कित्त्वादिति भावः। जघ्?स् अतुसिति स्थिते घकारस्य चर्त्वं वक्ष्यन्नुपधालोपस्य स्थानिवत्त्वमाशङ्क्याह– तस्येति। उपधालोपस्येत्यर्थः। जघ्?स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाऽभावादाह- - शासीति। थलितु क्रादिनियमान्नित्यमिट्। `उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्याऽनिड्विषयत्वात्। रघस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिट्कत्वम्। `यस्तासावस्ति अनिट् चे'ति हि भाष्यम्। तदाह–घसेस्तासाविति। जघसिथेति। जक्षयुः जक्ष। जघासजघस जक्षिव जक्षिम। घसादेशाऽभावपक्षे त्वाह–आदेति। थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते इडत्त्यर्तीति। आदिथेति। आदथुः आद। आद आदिव आदिम। अत्ता। अत्स्यतीति। अनिट्। दस्य तः। अत्तु अत्तात् अत्ताम् अदन्तु। अद्–हि इति स्थिते `झयो होऽन्यतरस्या'मिति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते–
–
वृत्ति: अदो “घसॢ” वा स्याल्लिटि। The verbal root √अद् (अदँ भक्षणे २. १) is optionally replaced by “घसॢँ” when लिट् follows.
उदाहरणम् – जक्षु: derived from √अद् (अद भक्षणे २. १). विवक्षा is लिँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
अद् + लिँट् 3-2-115
= घसॢँ + लिँट् 2-4-40
= घस् + ल् 1-3-2, 1-3-3, 1-3-9
= घस् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= घस् + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= घस् घस् + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-98.
= घ घस् + उस् 7-4-60
= झ घस् + उस् 7-4-62
= झ घ् स् + उस् 6-4-98. Note: As per 1-2-5, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-98 to apply.
Example continued under 8-3-60