Table of Contents

<<2-4-2 —- 2-4-4>>

2-4-3 अनुवादे चरणानाम्

प्रथमावृत्तिः

TBD.

काशिका

चरणशब्दः शाखानिमित्तकः पुरुषेषु वर्तते। चरणानां द्वन्द्वः एकवद् भवति अनुवादे गम्यमाने। प्रमाणान्तरावगतस्य अर्थस्य शब्देन सङ्कीर्तनमात्रम् अनुवादः। उदगाद् कठकालापम्। प्रत्यष्ठात् कठकौथुमम्। कठकालापाऽदीनाम् उदयप्रतिष्ठे प्रमाणान्तरवगते यदा पुनः शब्देन अनूद्येते तदा एवम् उदाहरणम्। यदा तु प्रथमत एव उपदेशस्तदा प्रत्युदाहरणम्। अनुवादे इति किम्? उदगुः कठकालापाः। प्रत्यष्ठुः कठकौथुमाः। स्थेणोरद्यतन्यां चेति वक्तव्यम्। स्थेणोः इति किम्? अनन्दिषुः कठकालापाः। अद्यतन्याम् इति किम्? उद्यन्ति कथकालापाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

897 अनुवादे चरणानाम्। चरणानां द्वन्द्व एकवदिति। शाखाध्येतृविशेषणास्चारणाः। तद्वाचिना परस्परद्वन्द्वः। एकवदित्यर्थः। `अनुवादे' इत्येतद्व्याचष्टे– सिद्धस्योपन्यासे इति। अवगतार्थस्य प्रतिपादने इत्यर्थः। प्रत्येकमन्वयाभिप्रायमेकवचनम्। लुङन्ते स्थाधातौ, लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्व एकवदिति वक्तव्यमित्यर्थः। उदगादिति। प्रादुरभूदित्यर्थः। इण्धातोर्लुङि रूपम्। कठकालापमिति। कठेन प्रोक्तमधीयते इति कठाः। वैशम्पायनान्तेवासित्वाण्णिनिः। तस्य `कठचरका'दिति लुक्। ततोऽध्येतृप्रत्ययस्य `प्रोक्ताल्लु'गिति लुक्। कलापिना प्रोक्तमधीयते इति कालापाः। प्रोक्तार्थे `कलापिनोऽण्'। सब्राहृचारिपीठसर्पित्यापिना टिलोपः। ततोऽध्येत्रणः `प्रोक्ताल्लु'गिति लुक्। कठानां कालापानां च समाहार इति विग्रहः। प्रत्यष्ठादिति। प्रतिपूर्वात्स्ताधातोर्लुङि रूपम्। कठकौतुममिति। कठेन प्रोक्तमधीयत इति कठाः। कौथुमिना प्रोक्तमधीयते इति कौथुमाः। प्रोक्तेऽर्थे `तेन प्रोक्त'मित्यण्। `सब्राहृचारी'त्यनेन टिलोपः। ततोऽध्येत्रणो लुक्। कठानां कौथुमानां च समाहार इति विग्रहः। यदा कठाः कलापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्कतयोरिदं वाक्यद्वयम्। अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकत्वम्। स्थेणोः किम् ?। अभूवन्कठकालापा#ः। लुङि किम् ?। अतिष्ठन्कठकालापाः।

तत्त्वबोधिनी

774 चरणानामिति। शाखाध्येतृवाचिनामित्यर्थः। स्थेणोरिति। `ष्ठा गतिनिवृत्तौ'। `इण् गतौ'। स्थाप्रकृतिकैण्प्रकृतिकलुङन्ते उपपदे सतीत्यर्थः। स्थेणोः किम्?। अभूवन् कठकालापाः। लुङिकिम्?। तिष्ठन्तु कठकालापाः। उदगादिति। इह यदा कठेषु कालापेषु च प्रतिष्ठितेषु उदितेषु चाऽऽवाभ्यां तत्र गन्तव्यमिति संकेतयित्वा तत्सङ्केतं विस्मृत्यासीनं प्रतिदमुच्यते। कठेन प्रोक्तमधीयते कठाः। वैशंपायनान्तेवासित्वाण्णिनिः। तस्य `कठचरका'दिति लुक्। अध्येत्रणस्तु `प्रोक्ताल्लु'गिति लुक्। `कलापिनोऽणं'। `सब्राहृचारी' त्याद्युपसङ्ख्यानाट्टिलोपः। यजुरिति। सूत्रे अध्वर्युशब्दो यजुर्वेदलक्षक इति भावः।

Satishji's सूत्र-सूचिः

TBD.