Table of Contents

<<2-4-36 —- 2-4-38>>

2-4-37 लुङ्सनोर्घसॢ

प्रथमावृत्तिः

TBD.

काशिका

लुङि सनि च परतो ऽदो घस्ल्\उ0325 आदेशो भवति। ल्\उ0325दित्करणम् अङर्थम्। लुङि अघसत्, अघसताम्, अघसन्। सनि जिघत्सति, जिघत्सतः, जिघत्सन्ति। घस्ल्\उ0325भावे ऽच्युपसङ्ख्यानम्। प्रात्ति इति प्रघसः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

560 अदो घसॢ स्याल्लुङि सनि च. ऌदित्वादङ्. अघसत्. आत्स्यत्.. हन हिंसागत्योः.. 2.. हन्ति..

बालमनोरमा

258 लुङ्सनोर्घस्लृ। `अदो जग्धिः इत्यतोऽद इत्यनुवर्तते। तदाह–अद इति. लृदित्त्वस्य प्रयोजनमाह– लृदित्?त्वादिति। हनधातुरिनिट्। प्रणिहन्तीति। शपो लुक्। नस्याऽनुस्वारपरसवर्णौ। `नेर्गदे'ति णत्वम्।

तत्त्वबोधिनी

227 जिघत्सति। प्रणिहन्तीति। `नेर्गदे'ति णत्वम्।

Satishji's सूत्र-सूचिः

वृत्ति: अदो घस्ऌ स्याल्लुङि सनि च । When the intention is to add the affix लुँङ् or “सन्”, the verbal root √अद् (अदँ भक्षणे २. १) takes the replacement “घसॢँ”।

उदाहरणम् – अघसत् derived from √अद् (अदँ भक्षणे २. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

घसॢँ + लुँङ् 2-4-37, 1-1-55, 3-2-110
= घस् + ल् 1-3-2, 1-3-3, 1-3-9
= घस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= घस् + ति 1-3-3, 1-3-9
= घस् + त् 3-4-100
= घस् + च्लि + त् 3-1-43

Example continued under 3-1-55