TBD.
आदेशः कथनम्। अनवादेशो ऽनुकथनम्। इदमो ऽन्वादेशविषयस्य अशादेशो भवत्यनुदात्तः, तृतीयादौ विभक्तौ परतः। आभ्यां छात्राभ्यं रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। अस्मै छात्राय कम्बलं देहि, अथो ऽस्मै शाटकम् अपि देहि। अस्य छात्रस्य शोभनं शीलम्, अथो ऽस्य प्रभूतं स्वम्। अशादेशवचनं साकच्कार्थम्। इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। नेह पश्चादुच्चारणमात्रम् अन्वादेशः। किं तर्हि? एकस्य एव अभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनम् अन्वादेशः। तेन इह न भवति, देवदत्तं भोजय, इमं च यज्ञदत्तम् इति।
TBD.
–
–
310 इदमोऽन्वादेशे। नन्विदमोऽनुदात्तमात्पविधावपि हलि लोपेन `आभ्या'मित्यादि समीहितरूपं सिध्यति, `एनयो'रित्यत्र तु विशिष्यैनादेशो विहितः, किमनेनाऽ\उfffदाचनेनेत्यत आह–साकच्कार्थमिति। यद्यपीह शित्करणं व्यर्थम्, अकारस्याऽकारविधानसामथ्र्यादेव सर्वादेशासिद्धेः, तथाप्यनुदात्तत्वार्थंमेवाऽकारविधानमित्याशङ्का स्यात्तन्निवारणाय शित्करणमित्याहुओः। `अ–अ'इति प्रश्लिष्य निर्देशे त्वनेकाल्वादेव सर्वादेशसिद्धेः सिद्ग्रहणं त्युक्तं शक्यमित्याकरः।
TBD.