Table of Contents

<<2-4-29 —- 2-4-31>>

2-4-30 अपथं नपुंसकम्

प्रथमावृत्तिः

TBD.

काशिका

अपथशब्दो नपुंसकलिङ्गो भवति। अपथम् इदम्। अपथानि गाहते मूढः। इह कस्मान् न भवति, अपथो देशः, अपथा नगरी? तत्पुरुषः इति वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

805 अपथं नपुंसकं। न-पन्था इति विग्रहे नञ्समासे नञो नस्य लोपे `ऋक्पूः' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः। परवल्लिङ्गतापवादः। तत्पुरुष इत्येवेति। `परवल्लिङ्ग'मित्यतस्तदनुवृत्तेरिति भावः। द्वन्द्वग्रहणं तु नानुवर्तते, अयोग्यत्वात्। अन्यत्र त्विति। बहुव्रीहावित्यर्थः। अपन्था इति। `पथो विभाषा' इति समासान्तविकल्पः। `पथः संख्याव्ययादेः' इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम्।

तत्त्वबोधिनी

707 अपथं नपुंसकम्। तत्पुरुष इत्येवेति। द्वन्द्व ग्रहणं तु नानुवर्तते, अयोग्यत्वादिति भावः। अपन्था इति। `पथो विभाषा' इति समासान्तविकल्पः। इदं सूत्रं शक्यमकर्तुम्। `पथः सङ्ख्याव्ययादेः'इति वक्ष्यमाणवार्तिकेन गतार्थत्वात्। प्रसङ्गादाह–।

Satishji's सूत्र-सूचिः

TBD.