Table of Contents

<<2-4-28 —- 2-4-30>>

2-4-29 रात्राह्नाहाः पुंसि

प्रथमावृत्तिः

TBD.

काशिका

कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाष्यन्ते। परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। चतूरात्रः। पूर्वाह्णः। अपराह्णः। मध्याह्नः। द्व्यहः। त्र्यहः। अनुवाकादयः पुंसीति वक्तव्यम्। अनुवाकः। शंयुवाकः। सूक्तवाकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

960 एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव. अहश्च रात्रिश्चाहोरात्रः. सर्वरात्रः. संख्यातरात्रः. (संख्यापूर्वं रात्रं क्लीबम्). द्विरात्रम्. त्रिरात्रम्..

बालमनोरमा

804 रात्राह्नाहाः। `द्वन्द्वतत्पुरुषयो'रित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशष्यते, तदन्तविधिः। रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः। फलितमाह–एतदन्ताविति। परवल्लिङ्गतापवादः। नन्वहोरात्र इति समाहारद्वन्द्वेः `स नपुंसक'मिति नपुंसकत्वप्रसङ्गः। नच नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यं, `पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा'निति न्यायेनऽनस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात्। तस्मादहोरात्राविति इतरेतरद्वन्द्व एवेहोदाहर्तुमुचित इत्यत आह-अनन्तरत्वादिति। अयमिति। `पुंस्त्वविधि'रिति शेषः। अहोरात्र इति। अहश्च रात्रिश्च तयोः समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम्। अपवादत्वात्परवल्लिङ्गमपि बाधित्वाऽनेन पुंस्त्वम्। `अहःसर्वैकदेशे'त्यच्। पूर्वाह्ण। इति अह्नः पूर्वमित्येकदेशिसमासः। `राजाहःसखिभ्यः' इति टच्। `अह्नोऽहः' #इत्यह्नादेशः। परवल्लिङ्गं नपुंसकं च बाधित्वा पुंस्त्वम्। द्व्यह इति द्वयोरह्नोः समाहार इति विग्रहे द्विगुः, टच्, `न सङ्ख्यादेः समाहारे' इत्यह्नादेशनिषेधः। परवल्लिङ्गं बाधित्वा पुंस्त्वम्। उत्तरपदस्याऽहन्शब्दस्य#आऽकारान्तत्वाऽभावान्न स्त्रीत्वं, समासन्तस्य समासभक्तत्वात्। त्वाष्टाध्यायीस्थं सूत्रं, नापि वार्तिकम्, भाष्ये अदर्शनात्। `रात्राह्नाहाः पुंसी'त्यस्यायमपवादः। द्विरात्रमिति। समाहारद्विगुः। `अहःसर्वैकदेशे'त्यच्। गणरात्रमिति। गणशब्दो बहुपर्यायः, `बहुगणवति' इति सङ्ख्यात्वम्। गणाना रात्रीणां समाहार इति द्विगुः। अच्।

तत्त्वबोधिनी

706 अहोरात्र इति। प्राचा तु अहोरात्रमित्युदाह्मतं, तन्नेति प्रागेवोक्तम्। अत्र वदन्ति–`रात्राह्नाहा-'इत्यनेन रात्रादीनामेव पुंस्त्वं विधीयते। तदन्तस्य तु `परवल्लिङ्ग'मित्येव सिध्यति। अतएव भिन्नविषयत्वात् `विप्रतिषेधे परं कार्य'मिति न प्रवर्तते। एवं च `रात्राह्नाहाः'इति पुंस्त्वाऽप्रवृत्त्या समाहारे `स नपुंसक'मित्येव भवति, परवल्लिङ्गापवादत्वादिति। तन्न। उक्तरीत्या व्द्यहत्र्यहादावपि नपुंसकत्वप्रसङ्गात्। न चेष्टपत्तिः। द्व्यहस्त्र्यह इति प्राचाप्युदाह्मतत्वेन स्वमूलग्रम्थेन सह विरोधापत्तेः। `ते तु तिं?रशदहोरात्रः'इत्यादिकोशविरोदाच्च। तस्माद्रात्र्याद्यन्तस्यैवायां पुंस्त्वविधिः `द्वन्द्वतत्पुरुषयो'रिति प्रकमणात्, तथा च भिन्नविषयात्वाऽभावात् `रात्राह्नाहाः'इति पुंस्त्व समाहारनपुंसकतां परत्वेन बाधत एव। रात्र क्लीबम्।सङ्ख्यापूर्वमिति। अत्र च `अपथपुण्याहौ नपुंसकौ' `सङ्ख्यापूर्वा रात्रिः'इति लिङ्गानुशासनसूत्रं मूलम्। सङ्ख्याग्रहणेषु कृत्रिमाऽकृत्रिमन्यायो न प्रवर्तते `व्द्यष्टनः सङ्ख्याया'मिति सूत्रेऽशीतिपर्युदासादित्याशयेनोदाहरति— द्विरात्रम् गणरात्रमिति। गणानां बहूनां रात्रीणां बहूनां रात्रीणां समाहार इति विग्रहः।

Satishji's सूत्र-सूचिः

TBD.