Table of Contents

<<2-4-27 —- 2-4-29>>

2-4-28 हेमन्तशिशिरावहोरात्रे च छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

पूर्ववतिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश् छन्दसि विषये पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि। अहोरात्रे इदं व्रूमः। परवल्लिङ्गतापवादो योगः। अर्थातिदेशश्च अयं न निपातनं, तेन द्विवचनमतन्त्रम्। वचनान्तरे ऽपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः। अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः। छन्दसि इति किम्? दुःखे हेमन्तशिशिरे। अहोरात्राविमौ पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तः, तस्य एव अयं प्रपञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.