Table of Contents

<<2-4-26 —- 2-4-28>>

2-4-27 पूर्ववदश्ववडवौ

प्रथमावृत्तिः

TBD.

काशिका

अश्ववडवयोर् विभाषएकवद्भावः उक्तः। तत्र एकवद्भावादन्यत्र परविल्लिङ्गतायां प्राप्तायाम् इदम् आरभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्ववडवौ। अर्थातिदेशश्च अयम्, न निपातनम्। तत्र द्विवचनमतन्त्रम्। वचनान्तरे ऽपि पूर्ववल्लिङ्गता भवति, अश्ववडवान्, अश्ववडवैः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

803 पूर्वपद\उfffदावडवौ। `अ\उfffदाश्च बहवा चे'ति द्वन्द्वे परवल्लिङ्गं बाधित्वा पूर्ववल्लिङ्गार्थमिदम्। `अ\उfffदावडवाविति द्वन्द्वः पूर्वपदस्य लिङ्गं लभते' #इत्यर्थे बहुवचने विभक्त्यन्तरे च न स्यादित्यत आह–द्विवचनमतन्त्रमिति। उपलक्षममिदम् द्विवचनं विभक्तिश्चेति द्वयमपि अविवक्षितमित्यर्थः। `पूर्वव'द्ग्रहणमत्र लिङ्गम् अन्यथा निपातनादेव सिद्धे किं तेनेति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.