TBD.
समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वादितरेतरयोगद्वन्द्वस्य इदं ग्रहणम्। परस्य यल् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च। उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर् विधीयते। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। तत्पुरुषस्य अर्धं पिप्पल्याः अर्धपिप्पली। अर्धकोशातकी। अर्धनखरञ्जनी। द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः। द्विगुः पञ्चसु कपालेसु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकाम् प्राप्तजीविकः। आपन्नो जीविकाम् आपन्नजीविकः। अलं जीविकायै अलंजीविकः। गतिसमासः निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः।
TBD.
965 एतयोः परपदस्येव लिङ्गं स्यात्. कुक्कुटमयूर्याविमे. मयूरीकुक्कुटाविमौ. (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः). पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः..
802 परवल्लिङ्गं। `परहव'दिति षष्ठ\उfffद्न्ताद्वतिः। तदाह–एतयोः परपदस्येवेति। द्व्न्द्वपदमत्र इतरेतरयोगद्वन्द्वपरं, समाहाद्वन्द्वे `स नपुंसक'मित्यस्य तदपवादत्वात्। कुक्कुटमयूर्याविमे इति। अत्र द्वन्द्वे अवयवलिङ्गनाऽनियमे प्राप्ते नियमार्थमिदम्। अर्धपिप्पलीति। `अर्धं नपुंसकम्' इति तत्पुरुषः। अस्यैकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वपदलिङ्गे प्राप्ते उत्तरपदलिङ्गार्थं विधिः। अत्र `द्वन्द्वतत्पुरुषयोः' इति षष्ठ\उfffद्न्तमर्थपरम्। द्वन्द्वतत्पुरुषार्थयोरित्यर्थः। एवंच `कुक्कुटमयूर्याविमे' इत्यनुप्रयोगेऽपि तदेव लिङ्गम्। `गतिसमास'-एतेषु परवल्लिङ्गस्य प्रतिषेधो वक्तव्यः इत्यर्थः। पञ्चस्विति। उत्तरपदस्य नपुंसकत्वात्समासस्य नपुंसकत्वं प्राप्तं, न भवति, किन्तु विशेष्यलिङ्गमेव प्राप्तजीविक इति। अत्रोत्तरपदस्य जीविकाशब्दस्य यल्लिङ्गं तत्समासस्य न भवति। अलंपूर्वस्योदाहरति–अलंकुमारिरिति। अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति। नन्वत्र तदर्थादियोगाऽभावान्न चतुर्थीसमासः। `पर्यादयो ग्लानाद्यर्थे' इत्यपि न भवति, तस्य समासस्य नित्यत्वेन `अलं कुमार्यै' इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह–अत एवेति। `एकविभक्ति चे'ति कुमारीशब्दस्योपसर्जनत्वाद्ध्रस्वः। गतिसमासमुदाहरति–निष्कौशाम्बिरिति। अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति। यद्यपि निरादिसमास एवायं, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तेः, तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः।
705 परवल्लिङ्गम्। इतरेतरयोगे द्वन्द्वोऽत्र गृह्रते न समाहारे द्वन्द्वः, `स नपुंसक'मित्यपवादस्य वक्ष्यमाणत्वात्। सूत्रे `द्वन्द्वतत्पूरुषयो'रिति न सप्तमीद्विवचनम्, तथात्वे द्वन्द्वे तत्पुरुषे च यत्परपदं तद्वल्लिङ्गं पूर्वपदस्यातिदिश्येत, परपदस्य संबन्धिशब्दत्वेन पूर्वंपदाक्षेपकत्वात्, ततश्च मयूरी कुक्कुटावित्यत्र पूर्वपदे ईकारनिवृत्तिप्रसङ्गः। कुक्कुटमयूर्यौ, अद्र्धपिप्पलीत्यादौ तु पूर्वपदे स्त्रीप्रत्यय उत्पद्येत। किं तु षष्ठीद्विवचनमित्याशयेनाह–एतयोरिति। द्वन्द्वतत्पुरुषार्थयोरित्यर्थः। एवं चानुप्रयोगेऽपि तदेव लिङ्गं सिद्धम्। उपमेये षष्ठ\उfffद्भ्युपगमाद्वतिरपि षष्ठ\उfffद्न्तादेवेत्याशयेनाह–परपदस्येवेति। भाष्ये तु `लिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्ये'ति प्रत्याख्यातमिदं सूत्रम्। अ\उfffद्स्मश्च प्रत्याख्याने तुल्यन्यायत्वाल्लिङ्गनुशासनं सर्वमेव प्रत्याख्यातं, तथापि तत्प्रौढिवादमात्रम्। अन्यथा व्याकरणस्यैव वैयथ्र्याप्रसङ्गात्। वाच्यः। गतिसमासेष्विति। गतिग्रहणं प्रादीनामुपलक्षणं प्रादीनामुलक्षणं, मुख्यस्य गतेरसंभवादित्याशयेनोदाहरति—निष्कौशाम्बिरिति। अतन्त्रमिति। अत्र च लिङ्गं `पूर्वव'द्ग्रहणम्। अन्यथा निपातनादेव सिद्धे किं तेनेति भावः। इह समासार्थस्य वा पूर्ववल्लिङ्गातिदेशः, उत्तरपदार्थस्य वा, उभयथाप्य\उfffदावडवौ शोभनावित्यनुप्रयोगेऽपि पुंस्त्वं सिध्यति। ननु समासार्थस्य पुंस्त्वेऽपि स्वाश्रयस्त्रीत्वस्याऽनिवर्तनाट्टापः श्रवणप्रसङ्गः। न चातिदेशवैयथ्र्यं, शसि नत्वप्रवृत्त्या, अनुप्रयोगे पुंलिङ्गत्वलाभेन च तत्सार्थक्यादिति चेदत्राहुः– इहैव निपातनात्, `अ\उfffदावडवपूर्वापराधरोत्तराणा'मित्यत्र निपातनाद्वा टापो निवृत्तिरिति।
TBD.