Table of Contents

<<2-4-24 —- 2-4-26>>

2-4-25 विभाषा सेनासुराच्छायाशालानिशानाम्

प्रथमावृत्तिः

TBD.

काशिका

सेना सुरा छाया शाला निशा इत्येवम् अन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा। ब्राह्मणसेनम्, ब्राहमणसेना। यवसुरम्, यवसुरा। कुङ्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्। श्वनिशा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1526 विभाषा सेना। प्रथमार्ते षष्ठी। `तत्पुरुष' इत्यनुवृत्तं सेनादिभिर्विशेष्यते। तदन्तविधिः। तदाह–एतदन्त इति। प्रत्येकाभिप्रायमेकवचनम्। \उfffदानिशमिति। शुनो निशेति विग्रहः। कृष्णचतुर्दशीत्याहुः। `शुनश्चतुर्दश्यामुपवसतः पश्यामः' इति तिर्यगधिकरणे शाबरभाष्ये स्थितम्। दृढसेन इति। दृढा सेना यस्येति बहुव्रीहिः। तत्पुरुषत्वाऽभावान्न क्लीबत्वविकल्पः। असेनेति। तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः। परमसेनेति। कर्मधारयत्वान्न कील्बत्वम्। `तत्पुरुषोऽनञ्कर्मधारयः' इत्यदिकारस्याऽत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम्। तत्पुरुषसमासः* सिद्धान्त-कौमुदी, श्रीवासुदेवभट्टदीक्षितविरचितया बालोपकारिण्या बालमनोरमाख्यया व्याख्यया, (तत्पुरुषादारभ्य) महामहोपाध्याय-श्रीनागेशभट्टविरचितया लघुशब्देन्दुशेखरटीकया च समन्विता। महामहोपाध्यायश्रीभट्टोजिदीक्षित चर्पोरतिओन्, 110007.\त्\र्\नाच्चेस्सिओन् णो : 51471 (Fइर्स्त्) 7 ःएअदिन्ग्स् : षन्स्क्रित्_Gरम्मर् Cक्ष्1,1,6,5

तत्त्वबोधिनी

1187 विभाषा सेना। प्राथमार्थे षष्ठीति सेनादिभिस्तत्पुरुषो विशेष्यते। विशेषणेन तदन्तविधिस्तदाह–एतदन्त इति। \उfffदानिशमिति। कृष्णचतुर्दशी। तस्यां किल केचिच्छ्वान उपवसन्ति। एतच्च शावरभाष्ये तिर्यगधिकरणे स्पष्टम्। `तत्पुरुष'इत्याद्यधिकारसूत्रस्यात्रैव प्रयोजनं, न तु `संज्ञायां कन्थोशीनरेषु'इत्यादिपञ्चसूत्र्याम्। अतत्पुरुषस्यच नञ्समासस्या कर्मधारयस्य च तत्राऽसम्भवादित्याकरे स्थितम्। तथैव प्रत्?युदाहरति—-दृढसेन इत्यादि। ननु बहुव्रीहौ विशेष्यनिन्घता न्याय्यैवेति किमनेन तत्पुरुषग्रहणेन?। मैवम्। न्यायापेक्षया वचनस्य बलीयस्त्वात्। किं चाऽसति तद्ग्रहणे द्वन्द्वे नपुंसकता स्यात्परवल्लिङ्गापवादत्वादस्य प्रकरणवादत्वादस्य प्रकरणस्येति दिक्। इति तत्पुरुषः॥

Satishji's सूत्र-सूचिः

TBD.