Table of Contents

<<2-4-23 —- 2-4-25>>

2-4-24 अशाला च

प्रथमावृत्तिः

TBD.

काशिका

अशाला च या सभा तदन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति। सङ्घातवचनो ऽत्र सभाशब्दो गृह्यते। स्त्रीसभम्। दासीसभम्। दासीसङ्घातः इत्यर्थः। अशाला इति किम्। अनाथकुटी इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

817 अशाला च। अशालार्थकेत्यर्थः। सभाशब्दः शालायां, सङ्घातार्थे च वर्तते। तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम्, संप्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह–सङ्घातार्था या सभेति। सभाशब्द इत्यर्थः।

तत्त्वबोधिनी

717 अशाला च। शालावाची सङ्घातवाची च सभाशब्दस्तत्र राजमनुष्यपूर्वत्वे शालावाचिनः क्लीबत्वमुक्तम्, अनेन तु सङ्घातवाचिनो विधीयत इत्याह—सङ्घातार्थेति।

Satishji's सूत्र-सूचिः

TBD.