Table of Contents

<<2-4-21 —- 2-4-23>>

2-4-22 छाया बाहुल्ये

प्रथमावृत्तिः

TBD.

काशिका

विभाषा सेनासुराच्छाया. शालानिशानाम् 2-4-25। इति विभाषां वक्ष्यति। नित्यार्थम् इदं वचनम्। छायाऽन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मः बाहुल्यम्। शलभादीनां हि बहुत्वं गम्यते। शलभच्छायम्। इक्षुच्छायम्। बहुल्ये इति किम्? कुङ्यच्छाया।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

815 छाया बाहुल्ये। छायया तत्पुरुषस्य विशेषणात्तदन्तविधिमभिप्रेत्याह–छायान्त इति। पूर्वपदार्थेति। कस्य बाहुल्ये इत्याकाङ्क्षायामापादकद्रव्यनिमित्तकत्वाच्छायायास्तद्बाहुल्ये इति गम्यते। तच्चापादकद्रव्यमर्थात्पूर्वपदार्थभूतमिति भावः। बाहुल्ये किम् ?। कुड\उfffद्स्य छाया कुड\उfffद्च्छाया।

तत्त्वबोधिनी

715 छाया बाहुल्ये। बाहुल्ये सति या छाया तद्वाची यश्छायान्तस्तत्पुरुष इत्यर्थः। इह कस्य बाहुल्य इत्यपेक्षायामावरकद्रव्यनिमित्तत्वाच्छायायास्तद्बाहुल्यैति गम्यते। तच्चावरकं पूरीवपदार्थभूतमेवेत्याशयेनाह—पूर्वपदार्थबाहुल्ये इति। पूर्वपदार्थबाहल्ये किम्?। कुड\उfffद्स्य छाया कुड\उfffद्छाया। प्रश्लेषो बोध्य इति। केचित्तु–`इक्षुच्छायनिषादिन्यः'इत्येवं पठन्ति।

Satishji's सूत्र-सूचिः

TBD.