Table of Contents

<<2-4-18 —- 2-4-20>>

2-4-19 तत्पुरुषो ऽनञ्कर्मधारयः

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम् उत्तरसूत्रेषु उपतिष्ठते। नञ्समासं कर्मधारयं च वर्जयित्वा ऽन्यस् तत्पुरुषो नपुंसकलिङ्गो भवति इत्येतदधिकृतं विदितव्यम्, यदित ऊर्ध्वम् अनुक्रमिष्यामस् तत्र। वक्ष्यति विभाषा सेनासुराच्छायाशालानिशानाम् 2-4-25। ब्राह्मणसेनम्, ब्राह्मणसेना। तत्पुरुषः इति किम्? दृढसेनो राजा अनञिति किम्? असेना। अकर्मधार्यः इति किम्? परमसेना।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

812 तत्पुरुषोऽनञ। नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः। तदाह–अधिकारोऽयमिति। `परवल्लिङ्गमित्यतः प्रा'गिति शेषः।

तत्त्वबोधिनी

713 तत्पुरुषोऽनञ्। नञ्समासकर्मधारयभिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभाग्भवतीति सूत्रार्थः।

Satishji's सूत्र-सूचिः

TBD.