TBD.
संज्ञायां विषये कन्थाऽनतस् तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था उशीनरेसु भवति। सौशमिकन्थम्। आह्वरकन्थम्। संज्ञायाम् इति किम्? वीरणकन्था। उशीनरेषु इति किम्? दाक्षिकन्था। परविल्लिङ्गता पवाद इदं प्रकरनम्।
TBD.
–
813 संज्ञायां कन्थो। सुगममेव। उपज्ञा। उपज्ञायते=प्रथमं ज्ञायत इत्युपज्ञा। `स्त्रियां क्ति'न्नित्यधिकारे `आतश्चोपसर्गे' इति कर्मण्यङ्। उपक्रम्यते=आरभ्यते इत्युपक्रमः। कर्मणि घञ्। `नोदात्तोपदेशस्ये'ति वृद्धिनिषेधः। उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः। `तत्पुरुष' इत्यस्य विशेषमिदम्। तदन्तविधिः। `स नपुंसक'मित्यतो `नपुंसक'मित्यनुवर्तते।
–
TBD.