TBD.
अधिकरणएतावत्त्वस्य समीपे विभाषा द्वन्द्वः एकवद् भवति। उपदशं दन्तोष्ठम्, उपदशाः दन्तोष्ठाः। उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः। अव्ययस्य सङ्ख्यया अव्ययीभावो ऽपि विहितः, बहुव्रीहिरपि। तत्र एकवद्भावपक्षे ऽव्ययीभावो ऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः।
TBD.
–
910 विभाषा समीपे। `अधिकरणैतावत्त्वे' इत्यनुवर्तते। `समीपे' इत्यस्य सामीप्येन परिच्छिन्ने सतीत्यर्थः। फलितमाह–अधिकरणेति। उपदशं दन्तोष्ठमिति। दशानां समीपे इत्यर्थेऽव्ययीभावः। उक्तरीत्याऽसामर्थ्येऽपि वचनसामथ्र्यात्समाहारद्वन्द्वः। समानलिङ्गवचनत्वादव्ययीभावस्यैवाऽनुप्रयोग इति भाष्यम्। अत एवोपदशं दन्तोष्ठेनेत्यादि सिद्धम्। समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम्। नवत्वसङ्ख्ययदन्तोष्ठसमूहः, एकादशत्वसङ्ख्यदन्तोष्ठसमूह इति वा बोधः। उपदशा दन्तोष्ठा इति। इतरेतरयोगद्वन्द्वोऽयम्। दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः। नव एकादश वेत्यर्थः। `बहुव्रीहेरेवात्राऽनुप्रयोगः, समानलिङ्गवचनत्वा'दिति भाष्यम्।
786 विभाषा समीपे। यद्यपीह `समाहारद्वन्द्व एवे'ति व्याख्यानेऽपि न क्षतिस्तथापि पूर्वसूत्रे नियमनिषेधस्योक्तत्वात्तदनुरोधेनाह नियमो वा स्यादिति। उपदसं दन्तोष्ठमिति। एकवद्भावपक्षेऽव्ययीभावस्यैवानुप्रयोगः। यदि तु बहुव्रीहिस्तदा `उपदशस्य दन्तोष्ठस्ये'ति षष्ठी स्यात्, `उपदशं दन्तोष्ठस्ये'त्येवेष्यत इत्याकरः। `दन्तोष्ठस्य दश'मित्यभिप्रायेण षष्ठ\उfffदां कृतायामपि उपदशशब्देन षष्ठी नेष्यते। अतो बहुव्रीहेर्नानुप्रयोगः, किं त्वव्ययीभावस्यैवेति तदाशयः।
TBD.