Table of Contents

<<2-4-14 —- 2-4-16>>

2-4-15 अधिकरनएतावत्त्वे च

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्तते। अधिकरणं वर्तिपदार्थः। स हि समासस्य अर्थस्य अधारः। तस्य एतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो न एकवद् भवति। यथायथम् एकवद् भावः प्राप्तः प्रतिषिध्यते। दश दन्तोष्ठाः। दश मार्दङ्गिकपाणविकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

909 अधिकरणैतावत्त्वे च। अधिकरणं-द्रव्यं, तस्य एतावत्त्वम्-इयत्ताविशेषः। तदाह– द्रव्यसङ्ख्यावगमे इति। समस्यमानपदार्थस्येयत्ताविसेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः। नियमो नेति। `ब्राहृप्रजापती' इत्यादौ समाहार एव द्वन्द्व #इति नियमस्य प्रकृतस्याऽप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः। इह तु बाधकाऽभावात्प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः। दश दन्तोष्ठा इति। दन्ताश्च ओष्ठाश्चेति विग्रहः। इतरेतरयोगद्वन्द्वोऽयं, न तु समाहार द्वन्द्वः। समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनाऽसामथ्र्यात्। इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात्। `उपमितं व्याघ्रादिभिः' इति सूत्रभाष्ये प्रदानस्य सापेक्षत्वेऽपि समासाभ्युगमात्। ततश्चात्रैकवदेवेति नियमाऽभावे सति असामथ्र्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते। यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत्। तथा सति `दश दन्तोष्ठाः' इतीतरेतरयोगद्वन्द्वो न स्यात्, `द्वन्द्वश्च प्राणितूर्ये'ति तन्निषेधात्। तताच वाक्यमेव स्यात्। किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनाऽसामथ्र्यादेवऽप्राप्तेः। अत एकवदिति नियमो न स्यादित्येव व्याख्ययेम्। एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलकस्याऽनेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जर्या स्पष्टम्।

तत्त्वबोधिनी

785 नियमो न स्यादिति। न चेह प्राण्यङ्गत्वात्प्राप्तस्य `एकवदेवे'ति नियमस्य प्रतिषेधेऽपि `चार्थे द्वन्द्वः'इति समाहारेद्वन्द्वः स्यादिति वाच्यं, `सविशेषणानां वृत्तिर्ने'त्यभ्युपगमेन समाहारेद्वन्द्वस्य प्राप्तयभावात्। न चोक्तन्यायेनेतरयोगद्वन्द्वोऽपि न स्यादिति वाच्यं, `सामान्याऽप्रयोगे'इति लिङ्गत्प्राधानस्य सापेक्षत्वेऽपि तदभ्युपदमात्। उक्तं हि भाष्ये–भवति वै प्रधानस्य सावेक्षस्यापि वृत्तिः'इति। स्यादेतत्–समाहारद्वन्द्वस्याऽत्र प्राप्त्यभावे `द्वन्द्वश्च प्राणितूर्ये'ति नियमाऽप्रवृत्त्या इतरेतरयोगद्वन्द्वो निर्बाध एवेति सूत्रमिदमकिंचित्करमिति चेदत्राहुः–`नियमसूत्राणां निषेधमुखेन प्रवृत्ति'रिति पक्षे `द्वन्द्वश्च प्राणितूर्ये'ति सूत्रं केवलमितरेतरयोगद्वन्द्वनिषेधपरम्। तथा चेतरेतरयोगनषेधस्य निषेधद्वारा इतरेतरयोगद्वन्द्वप्रापणार्थमिदमिति। एवं च निषेधमुखप्रवृत्तिपक्षस्य ज्ञापनायेदमिति फलितमिति दिक्।

Satishji's सूत्र-सूचिः

TBD.