Table of Contents

<<2-4-13 —- 2-4-15>>

2-4-14 न दधिपयाऽदीनि

प्रथमावृत्तिः

TBD.

काशिका

यथायथम् एकवद् भावे प्राप्ते प्रतिषेध आरभ्यते। दधिपयाऽदिनि शब्दरूपाणि न एकवद् भवन्ति। दधिपयसी। सर्पिर्मधुनी। मधुसपिषी। ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ। परिव्राट्कौशिकौ प्रवर्ग्योपसदौ। शौक्लकृष्णौ। इध्माबर्हिषी। निपातनाद् दीर्घः। दीक्षातपसी। श्रद्धातपसी। मेधातपसी। अध्ययनतपसी। उलूखलमुसले। आद्यावसाने। श्रद्धामेधे। ऋक्षामे। वाङ्मनसे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

908 न दधिपयाअदीनि। नैकवत्स्युरिति। एषां समाहारद्वन्द्वो नास्तीत्यर्थः। दधिपयसी इति। दधि च पयश्चेति विग्रहः। `जातिरप्राणिना'मिति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वात्वाद्विकल्पः प्राप्तः, सोऽपि न भवति। इध्माबर्हिषी इति। इध्मं च बर्हिश्चेति विग्रहः। दीर्घ इति। `इध्मशब्दस्ये'ति शेषः। ऋक्सामे इति। ऋक्च साम चेति विग्रहः। `अचतुरे'त्यादिनाऽच्समासान्तः। वाङ्मनसे इति। वाक्च मनश्चेति विग्रहः। पूर्ववत्समासान्तः। अत्र गणे `ब्राहृप्रजापती'इत्यादि पठितम्। `समाहारद्वन्द्व एवे'ति नियमप्रकरमेपि नानेन नियमस्यैव निषेधः, `ब्राहृप्रजापती' इत्यादौ नियमस्याऽप्राप्तेः। किंत्वेकवत्त्वस्यैव। तथाच `चार्थे' इति समाहारद्वन्द्वस्य निषेधः फलति।

तत्त्वबोधिनी

784 न दधिपय। दधिपयसी इति। व्याञ्जनत्वाद्विकल्पः प्राप्तः। एवं `मधुसर्पिषी, `सर्पिर्मधुनी'इत्यत्रापि बोध्यम्। इह `ब्राआहृ प्रजापती' `शिववैश्रबणौ'इत्यादौ समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्द्वोऽनेन व्यावस्थाप्यते। तत्साहचर्याद्दधिपयसी इत्यादवपि ततैव। तेन तत्र व्यञ्जनत्वप्रयुक्तविकल्पे निषिद्धेऽपि जातिलक्षणो नित्यमेकवद्भावोऽस्त्विति न शङ्कनीयम्। किं च नेह लक्षणविशेषे आग्रहः, `एतानि नैकत्स्युः'इत्येकवद्भावमात्रस्य निषेधात्, यथा `न षट्?स्वरुआआदिभ्यः'इत्यत्र ङीप्टापोरुभयोरपि निषेधसिद्धये `स्त्रियां यदुक्तं तन्ने'ति सामान्यतो निषिध्यते इति दिक्। ऋक्सामेवाङ्मनसे इति। `अचतुरे'त्यादिनाऽत्र समासान्तोऽच्निपात्यते। अधिकरणै। समासार्थस्याश्रयोऽधिकरणं=वर्तिपदार्थः, तस्यैतावत्त्वं =परिगणननियमः, तस्मिन्गन्यमान इति व्याचष्टे–द्रव्यसङ्ख्यावगमे इति।

Satishji's सूत्र-सूचिः

TBD.