Table of Contents

<<2-4-10 —- 2-4-12>>

2-4-11 गवाश्वप्रभृतीनि च

प्रथमावृत्तिः

TBD.

काशिका

गवाश्वप्रभृतीनि च कृतएकवद्भावनि द्वन्द्वरूपाणि साधूनि भव्न्ति। गवाश्वम्। गवाविकम्। गवैडकम्। अजाविकम्। अजैडकम्। कुब्जवामनम्। कुब्जकैरातकम्। पुत्रपौत्रम्। श्वचण्डालम्। स्त्रीकुमारम्। दासीमाणवकम्। शाटीपिच्छकम्। उष्ट्रखरम्। उष्त्रशशम्। मूत्रशकृत्। मूत्रपुरीषम्। यकृन्मेदः। मांसशोणितम्। दर्भशरम्। दर्भपूतीकम्। अर्जुनशिरीषम्। तृणोलपम्। दासीदासम्। कुटीकुटम्। भागवतीभागवतम्। गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्। रूपान्तरे तु न अयं विधिर् भवति। गो ऽश्वम्, गो ऽश्वौ। पशुद्वन्द्वविभाषा एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

905 गवाशम्वप्रभृतीनि च। यथागणे गणितानि तथैव साधीनित्यर्थः। गवा\उfffदामिति। गावश्चा\उfffदाआश्चेति विग्रहः। अत्र `विभाषा वृक्षे'ति पशुद्वन्द्वत्वाद्विकल्पे प्राप्ते नित्योऽयं विधिः।अत्र `सर्वत्र विभाषे'ति प्रकृतिभावे पूर्वरूपे च गो- अ\उfffदां, गोऽ\उfffदामिति नैकवत्त्वनियमः, `यथोच्चारितानी'त्युक्तेः, गणे च गवा\उfffदामित्येव निर्देशात्। गवा\उfffदाआदिषु `यथोच्चारितं द्वन्द्ववृत्तमिति वार्तिकमत्र मानम्। दासीदासमिति। अत्रैकवत्त्वनियमः। पुमान्स्त्रिये'त्येकसेषस्तु निपातनान्न। इत्यादिति। गवाविकं गवैडकमित्यादि वृत्तौ स्पष्टम्।

तत्त्वबोधिनी

781 गवा\उfffदा। यथोच्चारितानीति। गणपाठे पाणिनिना यथा पाठितानि तथैव साधूनीत्यर्थः। तेनाऽवङः पाक्षिकत्वाद्यदा नावङ् तदा उत्तरसूत्रेण विकल्पो न भवति। गोअ\उfffदाम्। `अपशवो वा अन्ये गोअ\उfffदोभ्यः, पशवो गोअ\उfffदाआः'। गवा\उfffदामिति। इह पशुद्वन्द्वे विभाषा प्राप्ता। दशीदासमिति। अत्र `पुमान्स्त्रिये'त्येकशेषो बाध्यते।

Satishji's सूत्र-सूचिः

TBD.