TBD.
कर्मप्रवचनीययुक्त इति वर्तते। यसमा दधिकं यस्य च ईश्वरवचनं कर्मप्रवचनीयैर् युक्ते तत्र सप्तमी विभक्तिर् भवति। उप खार्यं द्रोणः। उप निष्के कार्षापणम्। यस्य च ईश्वरवचनम् इति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर् भवति। अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः इति। द्वितीयापवादो योगः।
TBD.
–
637 यस्मादधिकम्। `कर्मप्रवचनीययुक्ते' इत्यनुवर्तते। तदाह–अत्र कर्मप्रवचनीयेति। शेषषष्ठ\उfffद्पवादः। उप पराध इति। अवधित्वं सप्तम्यर्थः। तदाह–परार्धादधिका इत्यर्थ इति। यस्मादधिकं संख्यान्तरं न विद्यते तत्परार्धम्। तदपेक्षयेत्यर्थः। `उपोऽधिके च' इति उपेत्यस्य कर्मप्रवचनीयत्वस्येदं फलम्। यस्ये\उfffदारवचनमित्यस्य यत्सम्बन्धी ईस्वर उच्यते तत सप्तमीत्येकोऽर्थः। इह यच्छब्देन स्वमुच्यते। #एवंच स्ववाचकात्सप्तमीति लभ्यते। ई\उfffदारशब्दो भावप्रधानः। यस्ये\उfffदारत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः। यन्निष्ठमी\उfffदारत्वमुच्यते ततः सप्तमीति यावत्। स्वामिवाचकात्सप्तमीति लभ्यते। तदाह–ऐ\उfffदार्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति। \र्\नधि भुवि राम इति। अधिरी\उfffदारपर्यायः। संबन्धः सप्तम्यर्थः। भुवः स्वामी राम इत्यर्थः। अत्र स्ववाचकात्सप्तमी। अधि रामे भूरिति। अत्र अधिः स्वशब्दपर्यायः। सम्बन्धः सप्तम्यर्थः। रामस्य स्वभूता भूरित्यर्थः। अत्र स्वामिवाचकात्सप्तमी। समासपक्षे त्विति। शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाऽधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति `सुपो धातु' इति सुब्लुकि रामाधिशब्दात् `अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः' इति खप्रत्यये `आयनेयीनीयियः' इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति। रामस्वामिकेत्यर्थः। विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः। रामाधिकरणिका भूरित्यर्थः। खप्रत्ययस्तु न, अध्युत्तरपदत्वाऽभावात्।
–
TBD.