TBD.
अप आङ् परि इत्येतैः कर्मप्रवचनीयैर् योगे पज्चमी विभक्तिर् भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद् वृष्टो देवः। परि त्रिगर्तेभ्यो वृष्तो देवः। अपेन साहचर्यात् परेर्वर्जनार्थस्य ग्रहणम्, तेन इह न भवति, वृक्षं परि विद्योतते विद्युत्।
TBD.
–
590 पञ्चम्यपाङ्परिभिः। एतैरिति। अप आङ् परि-इत्येतैरित्यर्थः। कर्मप्रवचनीयैरिति। `कर्मप्रवचनीययुक्ते' इत्यतस्तदनुवृत्तेरिति भावः। अप हरेः परि हरेः संसार इति। अपहरेः संसारः, परिहरेः संसार इत्यन्वयः। हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः। ननु `वृक्षं प्रति विद्योतते', `भक्तो हरिं प्रति' इत्यादौ `लक्षणेत्थंभूते'ति कर्मप्रवचनीयत्वात् `कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयां परत्वादपवादत्वाच्च बाधित्वा `पञ्चम्यपाङ्परिभि'रिति पञ्चमी स्यादित्यत आह–परिरत्रेति `पञ्चम्यपाङ्परिभिः' इत्यत्र वर्जनार्थकेनाऽपेन साहचर्यात् परिरपि वर्जनार्थकं एव गृह्रत इत्यर्थः। आ मुक्तेरिति। मुक्तेः प्रागिति यावत्। आ सकलादिति। ब्राहृ सकलमभिव्याप्य वर्तत इत्यर्थः।
529 परिहरेरिति। हरिं वर्जयित्वेत्यर्थः। `परेर्वर्जने वा वचनम्' इति वार्तिकात्पक्षे द्विर्वचनाऽभावः। परिरत्रेति। अत्र=पञ्चमीविधौ। वर्जनार्थेनाऽपेन साहचर्यादिति भावः। आ मुक्तेरिति। मुकिं?त मर्यादीकृत्येत्यर्थः। आ सकलादिति। सकलमभिव्याप्येत्यर्थः।
TBD.