Table of Contents

<<2-3-7 —- 2-3-9>>

2-3-8 कर्मप्रवचनीययुक्ते द्वितीया

प्रथमावृत्तिः

TBD.

काशिका

कर्मप्रवचनीयैर् युक्ते द्वितीया विभ्क्तिर् भवति। अनुर् लक्षणे 1-4-84 शाकल्यसय संहिताम् अनुप्रावर्षत्। आगस्त्यम् अन्वसिञ्चत् प्रजाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

540 कर्मप्रवचनीय। युक्ते इति भावे क्तः। तदाह–एतेन योगे इति जपमन्विति। कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम्। अत्र वृष्टिकाल उपदेश्यः, स च दुज्र्ञानत्वात्`शाखाग्रं प्रति द्विकलश्चन्द्र' इतिवत्प्रज्ञानं किंचिदवलम्ब्यैव ज्ञाप्यः। जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति संभवति। हेतुभूतजपो ह्रत्र लक्षणम्। हेतुत्वं च पूर्वकालवृत्तित्वघटितम्। एवंच वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति। तत्र लक्षणत्वं हेतुत्त्वं चेति द्वयं द्वितीयार्थः। तदुभयमनुना द्योत्यते। लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम्। जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिज्र्ञाप्यते। ततस्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः। तदाह–हेतुभूतेति। अनभिहिताधिकारान्न पर्जन्यात्तृतीया, तस्य तिङा अभिहितत्वात्। ननु हेतुत्वाऽविवक्षायां `वृक्षमनु विद्योतते विद्यु'दित्यत्र `अनुर्लक्षणे'इत्यत्र तदनुपादानात्। एवंच हेतुत्वाऽविवक्षायां `वक्षमनु विद्योतते विद्यु'दित्यत्र `अनुर्लक्षणे' इति सावकाशम्। `हेतौ' इति तृतीया तु `धनेन कुल'मित्यादौ सावकाशा। `पर्जन्यो जपमनु प्रावर्ष'दित्यत्र तु तदुभयमपि प्रसक्तम्। तत्र परत्वाद्धेतुतृतीयैव स्यादित्यत आह–परापीति। `अनुर्लक्षणे' #इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः। पुनः संज्ञेति। `वृक्षमनु विद्योतते विद्यु' दित्यत्र हि `अनुर्लक्षणे' इत्यस्य न प्रयोजनम्, `लक्षणेत्थ'मित्येव सिद्धेः। ततश्च `अनुर्लक्षणे' इत्यारम्भसामथ्र्याद्धेतुभूते लक्षणेऽनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौतृतीया बाध्यत इति विज्ञायते इत्यर्थः। ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.