TBD.
कालाध्वनोः इति वर्तते। कारकयोर् मध्ये यौ कालाध्वानौ ताभ्यां सप्तमीपञ्चम्यौ विभक्ती भवतः। अद्य भुक्तवा देवदत्तो द्व्यहे भोक्ता द्व्यहाद् वा भोक्ता। त्र्यहे त्र्यहाद् वा भोक्ता। कर्तृशक्त्योर् मध्ये कलः। इह स्थो ऽयम् इष्वासः क्रोशे लक्ष्यं विध्यति। क्रोशाल् लक्ष्यं विधियति। कर्तृकर्मणोः कारकयोः कर्मापादानयोः कर्माधिकरणयोर् वा मध्ये क्रोशः। सङ्ख्यातानुदेशो न भवति, अस्वरितत्वात्।
A noun denoting time or place gets the affix of the seventh or the fifth case, when the sense implied is that the time or space is the interval between one action and another action (or implies an interval of time and space between two kaarakas).
–
635 सप्तमीपञ्चम्यौ। कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कत्र्रादिपरः, व्याख्यानात्। मध्यस्यावधिद्वयसापेक्षत्वात्कारकयोर्मध्यमिति विग्रहः। तदाह– शक्तिद्वयमध्ये इति। `कालाध्वनोः' इत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यत इत्याह– यौ कालाध्वानाविति। अद्य भुक्त्वेति। सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम्। अद्य भुक्त्वा द्व्यहे अतीते तत्समीपे तृतीयेऽह्नि भोक्तेत्यर्थः। भविष्यति लुट्। कर्तृशक्त्योरिति। अद्यतनभुजिक्रियानिरूपितकर्तृत्वस्य, द्व्यहोत्तरदिनगतभुजिक्रियागिरूपितकर्तृत्वस्य चेत्यर्थः। कारकशब्दस्य कत्र्रादिपरत्वे त्विह न स्यात्, क्त्वाप्रत्ययस्य कत्र्रेकत्वे विधानात्। कर्तृशक्तिस्तु भुजिक्रियाभेदाद्भिद्यत एव। कारकद्वयमध्येऽप्युदाहरति– इहस्थोऽयमिति। इहापि देशतः सामीपिकमधिकरत्वं पञ्चमीसप्तम्योरर्थः। इहतिष्ठन्नयमिष्वास इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्येदित्यर्थः। कर्तृकर्मशक्त्योरिति। कर्तृत्वकर्मत्वरूपशक्त्योर्मध्य इत्यर्थः। कारकशब्दस्य कत्र्रादिपरत्वे त्विहैव स्यात्। अद्य भुक्त्वायमित्यत्र न स्यादिति सूचयितुमिदमष्युदाह्मतम्। ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसंबन्धे शेषषष्ठ\उfffदेवोचितेत्याशङ्क्याह–अधिकशब्देनेति। लोके लोकाद्वेति। अवधित्वसंबन्धः सप्तमीपञ्चम्योरर्थः। लोकापेक्षया श्रेष्ठ इत्यर्थः।
565 सप्तमीपञ्चम्यौ। `कालाध्वनो रत्यन्तसंयोगे ' इत्यतः कावाध्वनोरित्यनुवर्तते, तच्च पञ्चम्या विपरिणम्यते, तदाह—यौ कावाध्वानौ ताभ्यामिति। इह कालाध्वभ्यां विभक्त्योर्यथासंख्यं न भवत्यस्वरितत्वात्। अद्य भुक्त्वाऽयमिति। नन्वत्र कर्ता एक एव, तत्कथं कारकयोर्मध्ये कालः?। सत्यम्। नात्र शक्त्याश्रयं द्रव्यं कारकमिति व्यवह्यियते, किंतु शक्तिरेव। सा च कालबेदाद्भिद्यत एव। एका हि अद्य भुजेः साधनम्, अपरा व्द्यहेऽतीते भुजेः। तदेतव्द्याचष्टे—-कर्तृशक्त्योर्मध्येऽयं काल इति। (564) यस्मादधिकं यस्य चे\उfffदारवचनं तत्र सप्तमी।2।3।9। परार्ध इति। `उपोऽधिके चे' त्यनेन `उपे'त्यस्य कर्मप्रवचनीयसंज्ञा। `यस्य चे\उfffदारवचन'मित्यस्य तन्त्रादिना अर्थद्वयं विवक्षितम्। तथा हि यस्येत्यनेन स्वं निर्दिश्यते, यस्य स्वस्य संबन्धी ई\उfffदार उच्यते ततः सप्तमीति व्याख्याने स्वावा चकात्सप्तमीत्येकोऽर्थः। `ई\उfffदार' शब्दो भावप्रधानः। यन्निष्ठमी\उfffदारत्वमुच्यते ततः सप्तमीति व्याख्याने स्वाभिवाचकात्सप्तमीत्यपरः। एवं स्थिते फलितमाह–स्वस्वामिभ्यां पर्यायेणोति। अन्यतरस्मादुत्पन्नयैव सप्तम्या इतरनिष्ठसंबन्थस्याप्युक्तत्याद्युगपदुभाभ्यां न सप्तम स्यादिति भावः। रामाधीनेति। विभक्त्यर्थेऽव्ययभावे त्वधिरामम्।
TBD.