Table of Contents

<<2-3-5 —- 2-3-7>>

2-3-6 अपवर्गे तृतीया

प्रथमावृत्तिः

TBD.

काशिका

कालाध्वनोरत्यन्तसंयोगे इति वर्तते। अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः। अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर् भवति। मसेन अनुवाको ऽधीतः। संवत्सरेण अनुवाको ऽधीतः। अध्वनः क्रोशेन अनुवाको ऽधीतः। योजनेन अनुवाको ऽधीतः। अपवर्गे इति किम्? क्रोशम् अधीतो ऽनुवाकः। मासम् अधीतः। कर्तव्यादृत्तौ फलसिद्धेरभावात् तृतीया न भवति। मासम् अधीतो ऽनुवाकः, न च अनेन गृहीतः।

Ashtadhyayi (C.S.Vasu)

The third case-affix is employed after the words denoting the duration of time or place, when the accomplishment of the desired object is meant to be expressed.

लघु

बालमनोरमा

555 अपवर्गे तृतीया। अपवर्द समाप्तिः, `कर्मापवर्गे लौकिका अग्नयः' इत्यादौ दर्शनात्। इह तु फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः। तदाह-अपवर्गः फलप्राप्तिरिति। कालाध्वनोरिति। अनेन `कालाध्वनोः' इति द्वितीयाय अयमपवाद इति सूचितम्। अह्नेति। अह्नि कोशे वा निरन्तरमनुवाकोऽध्ययनेन गृहीत इत्यर्थः। नायात #इति। न गृहीत इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.