Table of Contents

<<2-3-67 —- 2-3-69>>

2-3-68 अधिकरणवाचिनश् च

प्रथमावृत्तिः

TBD.

काशिका

क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः 3-4-76 इति वक्ष्यति। तस्य प्रयोगे षष्ठी विभक्तिर् भवति। अयम् अपि प्रतिषेधापवादो योगः। इदम् एषाम् आसितम्। इदम् एषां शयितम्। इदम् हेः सृप्तम्। इदं वनकपेर्यातम्। इदम् एषां भुक्तम्। इदम् एषाम् अशितम्। द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावत्। नेता ऽश्वस्य ग्रामस्य चैत्रः। अन्ये प्रधाने कर्मण्याहुः। तदा, नेता ऽश्वस्य ग्रामं चैत्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

618 अधिकरणवाचिनश्च। शेषपूरणेन सूत्रं व्याचष्टे–क्तस्य योगे षष्ठीति। शयितमिति। शेतेऽस्मिन्निति शयितम्। `शीङ् स्वप्ने' `क्तोऽधिकरणे च ध्रौब्ये'ति क्तप्रत्ययः। तत्र एषामिति कर्तरि षष्ठी। `न लोके'निषेधापवादः। भुजेस्तु प्रत्यवसानार्थकत्वादधिकरणे क्तप्रत्ययः। `इदमेषां भुक्तमोदनस्ये'त्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी। `उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेन `कर्तृकर्मणोः कृती'ति षष्ठ\उfffदा एव तन्नियमाभ्युपगमात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.