TBD.
न लौउकाव्यय. निष्ठाखलर्थतृनाम् 2-3-69 इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते। क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर् भवति। रज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। क्तस्य इति किम्? ओदनं पचमानः। वर्तमाने इति किम्? ग्रामं गतः। नपुंसके भाव उपसङ्ख्यानम्। छात्रस्य हसितम्। मयूरस्य नृत्तम्। कोकिलस्य व्याहृतम्। शेषविज्ञानात् सिद्धम्। तथा च कर्तृविवक्षायां तृतीया ऽपि भवति, छाऽत्रेण हसितम् इति।
TBD.
–
617 क्तस्य च वर्तमाने। ननु `कर्तृकर्मणोः कृती'त्येव सिद्धे किमर्थमिदमित्यत आह-न लोकेति। राज्ञां मतो बुद्धः पूजितो वेति। मनुधातोः बुधधातोः पूजधातोश्च `मतिबुद्धिपूजार्थेभ्यश्चे'ति वर्तमाने क्तप्रत्ययः। तत्र मतिरिच्छा, बुद्धेः पृथग्ग्रहणात्। राजकर्तृकवर्तमानेच्छाविषयः, राजकर्त्तृकवर्तमानज्ञानविषयः, राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः। `पूजितो यः सुरासुरैः' `त्वया ज्ञातो घटः' इत्यत्र तु भूते क्तप्रत्ययो बोध्यः।
552 अधिकरण। अयमपि निषेधापवादः। आसितमिति। आस्यते अस्मिन्नित्यासितं, `क्तोऽधिकरणे च—' इत्यधिकरणे क्तः। इदमेषामिति। कर्तरि षष्ठीयम्। सकर्मकेभ्यस्त्वधिकरणे क्ते कृते कर्तृकर्मणोद्र्वयोरपि षष्ठी, अनभिहितत्वाऽविशेषात्। इदमेषां भुक्तमोदनस्य। `उभयप्राप्तौ कर्मणि' इत्ययं नियमस्तु नेह प्रवर्तते, `कर्तृकर्मणोः कृति'इत्यनन्तरस्या एव षष्ठ\उfffदास्तन्निमाभ्युपगमात्। एतच्च कौस्तुभे स्पष्टम्।
TBD.