TBD.
व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर् भवति। शतस्य दीव्यति। सहस्रस्य दीव्यति। तदर्थस्य इति किम्? ब्राह्मनं दीव्यति। योगविभाग उत्तरार्थः।
TBD.
–
611 दिवस्तदर्थस्य पूर्वसूत्रे निर्दिष्टव्यवह्मपणौ तच्छब्देन परामृश्येते। तयोः=व्यवह्मपणोरर्थ एवार्थो यस्येति विग्रहः। तदाह–द्यूतार्थस्येति। द्यूतमक्षक्रीडनेन ग्रहणमर्थो यस्य दिव इति विग्रहः। क्रयेति। क्रयविक्रयविषयकमूल्यसंवादोऽर्थो यस्यदिव इति बहुव्रीहिः। कर्मणि षष्ठीति। इह शेष इति नानुवर्तते, व्याख्यानादिति भावः। तथाच कर्मणः शेषत्वविवक्षाऽभावात् `षष्ठी शेषे' इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम्। तद्ध्वनयन्नुदाहरति–शतस्य दीव्यतीति। शतमक्षक्रीडनेन, क्रयविक्रयविषयकमूल्यसंवादेन वा गृह्णातीत्यर्थः। अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः। अत एव `द्वितीया ब्राआहृणे' इत्युत्तरसूत्रे `गामस्य तदहः सभायां दीव्येयुः' इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थ'मित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः।
547 दिवस्तद। तच्छब्देन व्यवह्मपणौ परामृश्येते, तौ च द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वऽसूत्रे गृहीतावित्याशयेनाह—द्यूते इति। पूर्वसूत्रे एव दिवेः पाठे तदर्थस्येति न कर्तव्यमिति यद्यपि लाघवं, ततावि योगाविभाग उत्तरार्थः। कर्मणीति। इह शेष इति न सम्बध्यते, उत्तरसूत्रे विकल्पारम्भासामथ्र्यात्। अन्यथा षष्ठ\उfffदा विकल्पितायां तया मुक्ते शेषे विभक्त्यन्तरस्याऽप्राप्त्या वृथैव विकल्पारम्भः स्यादिति भावः। अन्ये त्वाहुः–लाघवात्पूर्वसूत्रे एव दिवो ग्रहणे कर्तव्ये पृथग्योगकरणसामथ्र्यादत्र शेष इति न सम्बध्यते। न चोत्तरार्थत्वापृथग्योगस्य नोक्तार्थज्ञापकत्वमिति वाच्यम्। सङ्कोचे मानाऽभावेन फलद्वयस्यापि सुवचत्वादिति। शेष इत्यस्याऽसम्बन्धादिह त्रिसूत्र्यं तिङन्तमुदाहरति–शतस्य दीव्यतीति।
TBD.