TBD.
प्रातिपदिकार्थः सत्ता। लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि। परिमणं द्रोणः, खारी, आढकम्। वचनम् एकत्वद्वित्वबहुत्वानि। मात्रशब्दः प्रत्येकम् अभिसम्बध्यते। प्रातिपदिकार्थमात्रे, लिङ्गमात्रे, प्रिमाणमात्रे, वचनमात्रे प्रथमा विभक्तिर् भवति। प्रातिपदिकार्थमात्रे उच्चैः। नीचैः। लिङ्गग्रहणं किम्? कुमारी, वृक्षः, कुण्डम् इत्यत्र अपि यथा स्यत्। परिमाणग्रहणं किम्? द्रोणः, खारी, आढकम् इत्यत्र अपि यथा स्यात्। वचनग्रहनं किम्? एकत्वाऽदिषु उक्तेष्वपि यथा स्यात्। एकः, द्वौ, बहवः। प्रातिपदिकग्रहनं किम्? निपातस्य अनर्थकस्य प्रातिपदिकत्वम् उक्तं, ततो ऽपि यथा स्यात्। प्रलम्बते। अध्यागच्छति।
TBD.
891 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा.. नियतोपस्थितिकः प्रातिपदिकार्थः. मात्रशब्दस्य प्रत्येकं योगः. प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमा स्यात्. प्रातिपदिकार्थमात्रे - उच्चैः. नीचैः. कृष्णः. श्रीः. ज्ञानम्. लिङ्गमात्रे - तटः, तटी, तटम्. परिमाणमात्रे - द्रोणो व्रीहिः. वचनं संख्या. एकः, द्वौ, बहवः..
525 तदेवं `ङ्याप्प्रातिपदिका'दित्यधिकृत्य विहिताः स्वादिप्रत्ययाः सप्रपञ्चं निरूपिताः। तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तीनामर्थविशेषव्यवस्थां दर्शयितुमुपक्रमते-प्रातिपदिकार्थ। ननु `प्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः', `प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं चेति त्रिकं प्रातिपदिकार्थः', प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं संख्या चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं सङ्ख्या कारकं चेति पञ्चकं प्रातिपदिकार्थः' इत्येते पक्षा `सरूपाणामेकशेष एकविभक्तौ' `स्त्रिया'मित्यादिसूत्रेषु भाष्ये स्थिता मञ्जूषायां प्रपञ्चिताश्च। तत्र त्रिकादिपक्षेषु लिङ्गस्यापि प्रातिपदिकार्थत्वात्पृथग्ग्रहणं व्यर्थमित्यत आह– नियतेति। नियता उपस्थितिर्यस्येति विग्रहः। यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स तदर्थ इत्यर्थः। एवंच तटः तटी तटमित्याद्यनियतलिङ्गेषु नियमेन कस्यापि लिङ्गस्योपस्थित्यभावात्प्रातिपदिकार्थशब्देनाऽग्रहणात्पृथग्लिङ्गग्रहणमावश्यकमिति भावः। मात्रशब्दस्य वचनशब्देनैवान्वयभ्रमं वारयति–मात्रशब्दस्येति। प्रातिपदिकार्थश्च लिङ्गं च परिमाणं च वचनं चेति द्वन्द्वः। प्रातिपदिकार्थलिङ्गपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्र'मित्यस्वपदविग्रहः। मात्रशब्दोऽवधारणे। `मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः। `मयूरब्यंसकादयश्चेति नित्यसमासः। मात्रशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात्प्रातिपदिकार्थे, लिङ्गे, परिमाणे, वचने, च प्रत्येकमन्यवय इत्यर्थः। वचनं सङ्ख्येति वक्ष्यति। ननु प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे सङ्ख्यामात्रे च प्रथमेत्यनुपपन्नं, लिङ्गादीनां केवलानां प्रातिपदिकार्थं विना क्वाप्यनुपस्थितेरित्याशङ्क्य-`अत एव बाधकाल्लिङ्गमात्रेऽधिके इति विवक्षित'मित्यभिप्रेत्य व्याचष्टे– लिङ्गमात्राद्याधिक्ये इति। लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये चेत्यर्थः। प्रातिपदिकार्थमात्र #इत्यस्योदाहरति–उच्चैरित्यादि। नन्वव्ययेषु `सामान्ये नपुंसक'मिति नपुंसकत्वस्य च कृष्णशब्दे पुंस्त्वस्य च श्रीशब्दे स्त्रीत्वस्य च ज्ञानशब्दे नपुंसकत्वस्य च भानात्कथं प्रातिपदिकार्थस्योदाहरणान्येतानीत्यत आह– अलिङ्गा इत्यादि। `अव्ययादाप्सुपः' इति सूत्रे `आब्ग्रहणं व्यर्थमलिङ्गत्वा'दिति भाष्योक्तरीत्याऽव्यये कस्यापि लिङ्गस्यानुपस्थ#इतिरिति प्रातिपदिकार्थमात्रे इत्यस्य भवत्यव्ययमुदाहरणम्। कृष्णशब्दे पुंस्त्वस्य श्रीशब्दे स्त्रीत्वस्य ज्ञानशब्दे नपुंसकत्वस्य च नियमेन भानमस्ति तेषां नियतलिङ्गत्वात् अतस्तेषु लिङ्गनामपि प्रातिपदिकार्थान्तर्भावात्तेषामपि प्रातिपदिकार्थमात्रे इत्युदाहरणत्वं निर्बाधमिति भावः। यद्यपि `कृष्णः पटः' `कृष्णा पटी' `कृष्णं वस्त्र'मित्यादौ कृष्णशब्दस्त्रिलिङ्गः, तथापि भगवत्पर एवात्र कृष्णशब्दो विवक्षित इति भावः। नच प्रातिपदिक्तोक्तार्थे किं प्रथमयेति वाच्यम्, एकत्वादिसंख्याबोधार्थत्वात्। नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः `अव्ययादाप्सुप' इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात्। नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः `अव्ययादाप्सुप' इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात्। तेन उच्चैरित्यादौ रुत्वविसर्गौ `उच्चैस्ते सम्यगुच्चारण'मित्यादौ तेमयादिसिद्धिश्च भवति। अनियतेति। अनियतलिङ्गास्तु तटादिशब्दा लिङ्गमात्राधिक्यस्योदाहरणम्। तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकार्थनन्तर्भावादित्यर्थः। तटः तटी तटमिति। `तटं त्रिषु' इत्यमरः। परिमाणमात्रे इति। उदाहरणं वक्ष्यते इत्यर्थः। द्रोणो व्रीहिरिति। द्रोणः परिमाणविशेषः। `जालसूर्यमरीचिस्थं त्रसरेणुरिति स्मृतम्। तेऽष्टौ लिक्षा तु तास्तिरुआओ राजसर्षप उच्यते। गौरस्तु ते त्रयः, षट् ते यवो, मध्यस्तु ते त्रयः। कृष्णलः, पञ्च ते माषः, ते सुवर्णस्तु षोडश। बलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम्। पलद्वयं तु प्रसृतं, द्विगुणं कुडबं मतम्। चतुर्भिः कुडवैः प्रस्थः, प्रस्थाश्चत्वार आढकः। आढकैस्तैश्चतुर्भिस्तु द्रोण इत्यभिधीयते। कुम्भो द्रोणद्वयं शूर्पः, खारी द्रोणास्तु षोडश। ' #इति स्मरणात्। `ब्राईहिरिति। जातावेकवचनं `जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्' इति वचनात्। व्रीहिराशिरिति यावत्। नह्रेकस्या व्रीहिव्यक्तेद्र्रोणपरिमाणं संभवति। ननु द्रोणाख्यापरिमाणविशेषस्य व्रीहिव्यक्तेश्च कथमभेदान्वयः, धर्मधर्मिणोर्भेदादित्यत आह–द्रोणरूपमिति। तथाचाऽभेदान्वयवस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्तेश्च परिच्छेदकभावेनान्वयाभ्युपगमान्नोक्तदोष इति भावः। प्रातिपदिकार्थमात्रे इत्येव सिद्धम्। यदि तु `अस्त्रियामाढकद्रोणौ' इति द्विलिह्गता, तर्हि लिङ्गमात्राधिक्ये इत्येव सिद्धं। त\उfffद्त्क परिमाणग्रहणेनेति चेत्तत्राह–प्रत्ययार्थे परिमाणे इति। न हि द्रोणत्वेन रूपेम परिमाणविशेषवाचिद्रोणशब्दात्स्वार्थे प्रथमाविभक्तिरिष्यते, येन प्रातिपदिकार्थंमात्रे इत्यनेन गतार्थता स्यात्। किं तु द्रोणत्वेन परिमाणवाचिनो द्रोणशब्दात्परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधीयते। ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्भकप्रकृत्यर्थः परिमाणविशेषः सामान्यविशेषात्मकाऽभेदसंसर्गेणान्वेति। परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति। तथाच द्रोणाक्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति। अन्यथा द्रोणाक्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात्। परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति। तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति। अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात्। परिमाणसामान्यं न प्रतीयते। तदर्थमिह परिमाणग्रहणमित्यर्थः। पूर्वाचार्यैस्तथा संज्ञाकरणादिति भावः। तथाच सङ्ख्यमात्रे प्रथमेति लभ्यते। नच लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये इतिवत्सह्ख्यामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यं, केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्यभावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेकत्वद्वित्वबहुत्वानां केवलानां नियतोपस्थितिसत्त्वेन सङ्ख्यामात्रे इत्येव व्याख्यातुमुचितत्वात्। अत एव भाष्ये वचनग्रहणांशे एको द्वौ बहव इत्युदाह्मतम्। एकत्वद्वित्वबहुत्वानां नियमनोपस्थित्या `प्रातिपदिकार्थे ' इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह–इहेति। प्रकृतिभिरेवैकत्वादीनामुक्तत्वात् `उक्तार्थानामप्रयोगः' इति न्यायेन प्रथमाविभक्तेरप्राप्तौ तदर्थं वचनग्रहणमित्यर्थः। तथाच विभक्तिरिहानुवादिका शब्दसाधुत्वार्थं प्रयोज्या, `न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः' इत्यनभिहितसूत्रभाष्यसिद्धन्यायादिति भावः। इदमेवाभिप्रेत्योक्तं भाष्ये–`उक्तेष्वप्येकत्वादिषु प्रथमा' इति। मात्रग्रहणात्कारकाद्याधिक्ये प्रथमा न भवति। अत्र `अर्थे प्रथमे'त्येव सूत्रयितुमुचितमिति प्रौढमनोरमादौ प्रपञ्चितम्।
472 `स्वौजसमौट्'—इत्यादिना तावत् स्वादयो ङ्याप्प्रातिपदिकाद्दर्शिताः। तेषामर्थविशेषे व्यवस्थां दर्शयितुमारभते–प्रातिपदिकार्थत्यादिना। प्रथमादयः सप्तम्यन्ताः प्राचां सञ्ज्ञास्तचाभिरिहापि व्यवहार इति `स्वौजसमौट्'—इति सूत्रे मूलकृतोक्तम्। कौस्तुभे तु—इह प्रथमादयः शब्दाः सुपां त्रिकेषु वर्तन्ते, `समं स्यादश्रुतत्वात्'इति न्यायादित्युक्तम्। तथा च न्यायसिद्धत्वादस्मिञ्शास्त्रे प्रथमादिसञ्ज्ञानामकरणेऽपि न क्षतिरिति ज्ञेयम्। यदा हि `पञ्चकं प्रातिपदिकार्थः'इति गृह्रते ततो लिङ्गवचनग्रहणमनर्थकम्, `प्रातिपदिकार्थे'इत्येव सिद्धेः, मात्रग्रहणाच्च कर्मादिव्यवच्छेदो न स्यात्, प्रातिपदिकार्थादनतिरिक्तत्वात्। त्रिकपक्षेऽपि लिङ्गग्रहणमनर्थकमेवेत्याशङ्क्य विवितं दर्शयतिनियतोपस्थितिक इति। यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स प्रातिपदिकार्थ इत्यर्थः। शक्य इति यावत्। नन्वेवं सिंहो माणवक इत्यदौ पर्थमा न स्यात्।अत्राहुः–शक्यार्थमादाय प्रथमाविभक्तेत्पत्तौ सत्यां पश्चात् पदान्तरसमभिव्याहारे लक्ष्यार्थबोधेऽपि क्षत्यभावादिति मात्रशब्दस्येति। तस्य चाऽत्राऽवधारणमात्रमित्येवकारेणाऽस्वपदविग्रहः। समासस्तु मयूरव्यंसकादित्वाद्बोध्यः। प्रत्येकमिति। द्वन्द्वान्ते श्रूयमाणत्वादिति भावः। ननु वूरः पुरुष इत्यादावभेदसंसगस्याऽधिकस्य भानात्प्रथमा न स्यात्। न च `पूर्वाऽपरे त्यादिना वीरशब्दस्य समासविधानं प्रथमोत्पत्तौ लिङ्गमिति वाच्यं, द्वितायद्यन्तानामपि वीरं पुरुषमानयेत्यादौ तद्बिधानस्य चरितार्थत्वादिति चेन्न; संसर्गस्य,वाक्यार्थत्वेन बहिरङ्गत्वात्प्रथमप्रवृत्तसंस्कारबाधाऽनुपपत्तेः। पदसंस्कारपक्षस्यैवेहाभ्युपगमात्। मात्रपदेन कर्माद्याधिक्ये प्रथमा न भवेत्तथापि लिङ्गपरिमाणग्रहणाल्लिङ्गाधिक्ये परिमाणाधिक्ये च भवेदेवेत्याह—- लिङ्गमात्राद्याधिक्ये इति। यद्यपि `लिङ्गमात्रे'`परिमाणमात्रे'इत्येवाऽक्षरार्थस्तथापि प्रातिपदिकार्थं विना लिङ्गादिप्रतीतेरसम्भवादिति `तदाधिक्ये'इत्युक्तम्। उच्चैरिति। पदत्वादिह रुत्वविसर्गौ भवतः। किञ्च अस्य पर्थमान्तत्वाद्नाम उच्चैस्तव स्वम्, ग्राम उच्चैस्ते स्वमिति `सपूर्वायाः'इति सूत्रेण तेमयादेशयोर्विकल्पसिद्धिरपि फलम्॥ कृष्ण इति। यद्यपि नीलद्रव्येऽयमियतलिङ्ग, तथापि वासुदेवे भगवति नियतपुंलिङ्ग इति भावः। ज्ञानमिति। भावे ल्युट्। तटः तटी तटमिति। द्विकपक्षे नियतलिङ्गं न प्रकृत्यर्थः, त्रिकपक्षे तु यद्यपि प्रकृत्यर्थः, तथापि तत्तल्लिङ्गस्य पाक्षिकोपस्थितिकत्वान्न `प्रातिपदिकार्थे'त्यनेन गतार्थता। द्रोण इति। न चेह `प्रातिपदिकार्थमात्र'इत्येव प्रथमाऽस्त्विति वाच्यं, तथा सति परिच्छेद्यपरिच्छेदकभावस्य संसर्गविधया भानाऽयोगात्। नामार्थयोरभेदसंसर्गस्य व्युत्पन्नत्वात्। व्रीहिरिति। जातावेकवचनम्। व्यक्तिविवक्षायां तु `द्रोणो व्रीहयः'इति भवत्येव॥अभेदेनेति। न च प्रकृतिप्रत्ययार्थयोभेदान्वयो दुर्लभः, `पचति' `पाचकः'`औपगव'इत्यादौ सर्वत्र भेदान्वयस्यैव दृष्टत्वादिति वाच्यं, देवतार्थकतद्धितादावभेदान्वयस्य दृष्टत्वात्। `ऐन्द्र हवि'रित्यत्र हि इन्द्रदेवताकं हविरिति बोधः सर्वैरेवाभ्युपगम्यत इथि नास्ति शङ्कावसर इति भावः। वचनं सङ्ख्येति। वाच्यवाचकयोरभेदाध्यवसायेन तथैव पूर्वाचार्याणां व्यवहारादिति भावः। अप्राप्तौ वचनमिति। सूत्रे वचनग्रहणमित्यर्थः। वस्तुतस्तु सूत्रे मात्रग्रहणं व्यर्थम्। विशेषविहितैः `कर्मणि द्वितीये'त्यादिभिर्बाधितत्वेन कर्मादौ प्रथमाया अप्रवृत्तेः। `कर्मणि द्वितीये'त्यादिषु `कर्मणि द्वितीयैव'`कर्तृकरणयोरेव तृतीय नान्यत्रे'ति प्रत्ययनियमपक्षे प्रथमाया अपि कर्मादौ प्रवृत्तिसम्भवान्मात्रग्रहणमावश्यकमेवेति वाच्यं, प्रत्ययनियमपक्षे हि `प्रातिपदिकार्थं एव प्रथमा, नान्यत्रे'त्यर्थपयवसानात्कर्मादौ प्रथमाया अप्रवृत्तौ वचनग्रहणमपि व्यर्थं, `न केवला प्रकृतिः पयोक्तव्ये'ति निषेधादेव पर्थमोत्पत्तिसिद्धेः। न चैवं `द्विशब्दाद्बहुशब्दाच्चैकवचनम्, एकशब्दाद्द्विवचनम्' इत्येवमव्यवस्था स्यादिति वाच्यम्, अनन्वितार्थकविभक्तिप्रयोगाऽपक्षेया अनुवादकविभक्तिप्रयोगस्य न्याय्यत्वात्। `गौर्वाहीक'इतिवद्द्रोणब्दस्य तत्परिमिते उपचाराद्द्रोणो व्रीहिरित्यभेदान्वयः, नामार्थयोरभेदान्वयात्। `परिमाणं प्रत्ययार्थः'इति पक्षे तु द्रोणरूपं यत्परिमामं तत्परिच्छिन्नो व्रीहिरित्यभेदान्वयः, नामार्थयोरभेदान्वयस्तथा च फलभेदे कथं प्रत्#आख्यानमिति चेदत्राहुः–शाब्दबोधप्रयुक्तं वैलक्षण्यमिहाऽनादृत्य परिमाणग्रहणं प्त्याख्यातम्। अतएव औपगवादौ `तस्येदम्'इत्यनेनैवाऽण्प्रत्ययसिद्धेः `तस्यापत्य'मिति सूत्रं किमर्थमित्याक्षेपः, मत्वर्थीयेनिनैव सिद्धेः `परिवृत्तो रथः'इत्यधिकारे `पाण्?डुकम्बलादिनिः'इतीनिप्रत्ययविधानं किमर्थमित्याक्षेपश्च वक्ष्यमाणः सङ्गच्छते। यदि तु सर्वत्रैव शाब्दबोधप्रयुक्तं वैलक्षण्यं स्वीक्रियते तर्हि `बाधनार्तं कृतं भवे'दिति समाधानस्याऽणो बाधनार्थमिनिप्रत्ययविधानमिति समाधानस्य च वैयथ्र्यापत्तेरिति। ननु क्वचित् पञ्चकं प्रातिपदिकार्थः, क्वचित्त्रिकं, क्वचिद्द्विकं प्रातिपदिकार्थ इत्यादि व्यवह्यियते। त एते पक्षाः केषाममिमताः, कथं वाऽमीषामुपपत्तिरिति चेत्। अत्र व्याचख्युः— स्वार्थद्रव्यलिङ्गसङ्ख्याकारकात्मकः पञ्चकं प्रातिपदिकार्थः, धि मध्वित्यादौ विनापि विभकिं?त प्रातिपदिकादेव तावतामर्थानां प्रतीतेः। वृक्षौ वृक्षाः वक्षं वृक्षेणेत्यादौ यद्यपि विभक्त्यन्वयेऽपि प्रतीयन्ते नेयता पर्कृत्यर्थत्वहानिः, द्योतकत्वेनैवोपयोगादिति भाष्यकारो मन्यते। आदितश्चतुष्कमिति कैयटः। `तत्रोपपदं सप्तमीस्थं'मित्यत्र चतुष्कपक्षे, पञ्चकपक्षे वा कारकं प्रातिपदिकार्थ इत्यभिधानात्। आदितस्त्रिकमिति वृत्तिकारः। अन्वयव्यतिरेकाभ्यां सङ्ख्याकारकादेर्विभक्त्यर्थत्वनिश्चयात्। यद्यपि `दधि'`मधु'इत्यादौ विनापि विभकिं?त सङ्ख्याकारकं च प्रतीयते, नेयता वृक्षौ वृक्षा इत्यादावपि विभक्त्यर्थत्वं हीयते। न हि `गर्गा'इत्यादौ विनापि यञा अपत्यं गम्यत इथि तदपि प्रकृत्यर्थः। न चा।?विभरित्यादौ अन्तरेणाऽपि प्रत्ययं कर्ता प्रतीयत इति भेत्तेत्यादावपि कर्ता प्रकृत्यर्थ एवेति युज्यते वक्तुम्। अतस्त्रिकमेव प्रातिपदिकार्थः, सङ्ख्याकर्मादयस्तु विभक्त्यर्था इति। लिङ्गं टाबादिवाच्यमिति पक्षे आदितो द्विकमेवेत्यन्ये। तत्र स्वार्थो—विशेषणम्। द्रव्यं–विशेष्यम्। लिङ्गं–स्त्रीत्वादि। सङ्ख्य–एकात्वादिः। कारकं–कर्मादि।
TBD.