Table of Contents

<<2-3-44 —- 2-3-46>>

2-3-45 नक्षत्रे च लुपि

प्रथमावृत्तिः

TBD.

काशिका

तृतीयासप्तम्यावनुवर्तते। लुबन्तात् नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भ्वतः। पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात्। मघाभिः पललौदनम्, मघसु पललौदनम्। नक्षत्र इति किम्? पञ्चालेषु वसति। लुपि इति किम्? मघासु ग्रहः। इह कस्मान् न भवति, अद्य पुस्यः, अद्य कृत्तिका? अधिकरणे इति वर्तते। वचनं तु पक्षे तृतीयाविधानार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

634 नक्षत्रे च लुपि। `नक्षत्रे ' इत्यनन्तरं `प्रकृत्यर्थे सती'ति शेषः। लुप्शब्देन लुप्संज्ञाया लुप्तप्रत्ययार्थो विवक्षितः। तदाह–नक्षत्रे प्रकृत्यर्थे इति। अधिकरण इति। `सप्तम्यधिकरणे चे'त्यत मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। मूलेनेति। मूलनक्षत्रयुक्तकाल इत्यर्थः। `नक्षत्रेण युक्तः कालः' इत्यण्। `लुबविशेषे' इति तस्य लुप्। अधिकरणे किम् ?। मूलं प्रतीक्षते। नक्षत्र इति किम् ?। पञ्चालेषु तिष्ठति। इह `जनपदे' इति लुप्।

तत्त्वबोधिनी

563 नक्षत्रे च लुपि। लुप्शब्दोऽत्रार्थविशेषे लाक्षणिक इत्याशयेनाह–यो लुप्संज्ञयेत्यादि। अधिकरण इति। एतच्च `सप्तम्यधिकरणे च' इत्यतो मण्डूकप्लुत्यानुवर्तत इति भावः। अधिकरणे किम्, मूलं प्रतीक्षते, मूलाय स्पृहयति। मूलेनेति। `नक्षत्रेण युक्तः कालः' इत्यणो `लुबविशेषे' इति लुप्। नक्षत्र इति किम्?। पञ्चालेषु तिष्ठति। इह `जनपदे लुप्' इथि लुप्।

Satishji's सूत्र-सूचिः

TBD.