Table of Contents

<<2-3-43 —- 2-3-45>>

2-3-44 प्रसितौत्सुकाभ्यां तृतीया च

प्रथमावृत्तिः

TBD.

काशिका

प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर् भवति, चकारात् सप्तमी च। प्रसितः प्रसक्तः, यस् तत्र नित्यम् एव अवबद्धः स प्रसितशब्देन उच्यते। केशैः प्रसितः केशेषु प्रसितः। केशैरुत्सुकः, केशेषु उत्सुकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

633 प्रसितोत्सुकाभ्याम्। `तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः' इत्यमरः। वैषयिकाधिकरणत्वे सम्यम्यामेव प्राप्तायामिदं वचनम्।

तत्त्वबोधिनी

562 प्रसितोत्सुकाभ्यां। `तत्परे प्रसिताऽऽसक्तौ' इत्यमरः। उत्सुकसाहचर्यात् प्रसितोऽपि तत्पर एवेह गृह्रते, रूढ\उfffदा च। तेन प्राकर्षेण सितः=शुक्ल इत्यर्थे न भवति।

Satishji's सूत्र-सूचिः

TBD.