TBD.
साधु निपुण इत्येताभ्याम् योगे ऽर्चायां गम्यमानायां सप्तमी विभक्तिर् भवति, न चेत् प्रतिः प्रयुज्यते। मातरि साधुः। पितरि साधुः। मातरि निपुणः। पितरि निपुणः। अर्चायाम् इति किम्? साधुर्भृत्यो राज्ञः। तत्त्वकथने न भवति। अप्रतेः इति किम्? साधुर् देवदत्तो मातरं प्रति। अप्रत्यादिभिरिति वक्तव्यम्। साधुर्देवदत्तो मातरम् परि। मातरमनु।
TBD.
–
632 शादुनिपुणाभ्याम्। शेषषष्ठ\उfffद्पवादः। मातरिसाधुरिति। हितकारीत्यर्थः। निपुणो वेति। मातरि कुशल इत्यर्थः। `शुश्रूषाया'मिति शेषः। निपुणो राज्ञ इति। साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव, `साध्वसाधुप्रयोगे चे'त्युक्तेः। इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम्।\र्\नप्रत्यादिभिरिति। प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः।
561 साधुनिपुणाभ्यामर्चायां। `पुण कर्मणि शुभे' अस्मान्निपूर्वादिगुपधलक्षणः कः। `अर्च पूजायाम्' अस्मार्द्भौवीदिकात् `गुरोश्च हलः' इत्यप्रत्यये टाप्। चौरादिकात्तु `ण्यासश्रन्थ—' इति युचि–अर्चनेति स्यात्। निपुणो राज्ञ इति। साधुशब्दप्रयोगे त्वर्चां विना सप्तमी भवत्येव, `साध्वसाधुप्रयोगे च'इति वार्तिकात्। \र्\नप्रत्यादिभिरिति वक्तव्यम्॥ अप्रत्यादिभिरिति। `लक्षणेत्थम्— ' इति सूत्रोपात्ताः प्रत्यादयः।
TBD.