Table of Contents

<<2-3-41 —- 2-3-43>>

2-3-42 पञ्चमी विभक्ते

प्रथमावृत्तिः

TBD.

काशिका

यतश्च निर्धरनम् इति वर्तते। षष्ठीसप्तम्यपवादो योगः। विभागः विभक्तम्। यस्मिन् निर्धारणाऽश्रये विभक्तम् अस्य अस्ति ततः पज्चमी विभक्तिर् भवति। माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः, आढ्यतराः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

631 पञ्चमी विभक्ते। विभागो विभक्तिमिति। भावे क्तप्रत्ययाश्रयणादिति भावः। `यतश्चनिर्धारण'मित्यनुवर्तते। निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजानां च सामान्यात्मनाऽभेदो, विशेषात्मना भेदश्च स्थितः। एवं च निर्धारणे सर्वत्र कथंचिद्भेदस्य सत्त्वाद्विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः। ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेणाऽभेदस्तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह– निर्धार्यमाणस्येति। `निर्धारणावधे'रिति शेषः, `यतश्च निर्धारण'मित्यनुवृत्तेः। अत्रावधिव्यवृत्तधर्मवत्त्वबोधनमेव , न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति–माथुरा इति। अवधित्वं पञ्चम्यर्थं मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाढ\उfffदा धनिन इत्यर्थः। अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोर्गोत्वाऽ\उfffदात्ववद्विरोधात्कथञ्चिदपि तद्रूपेण नाऽभेद इति निर्धारणावधेः पञ्चमीति भावः।

तत्त्वबोधिनी

560 पञ्चमी विभक्ते। भेद एवेति। न तु शब्दान्तरोपात्तसामान्याक्रान्ततेति भावः। तत्र पञ्चमी स्यादिति। नन्वेवं माथुरा इत्यत्रापि पञ्चमी स्यात्। मैवम्। पूर्वसूत्रमिहानुवर्तते। तेन यतो निर्धार्यते तत एवेत्यर्थात् निर्धारणावधेरेव पञ्चमीप्रवृत्तेः। अनभिहिताधिकारान्माथुरा इत्यत्र नातिप्रसङ्ग इत्यन्ये। माथुरा इति। न ह्रत्र निर्धारणावधेर्निर्धार्यमाणस्य च गवां कृष्णेत्यादाविव सामान्यविशेषभावोऽस्ति, किन्तु शब्दोपात्तयोद्र्वयोर्विरोध एव। इदं च सूत्रं बुद्धि परिकल्पितापायमाश्रित्यापादानप्रकरणे भाष्ये प्रत्याख्यातम्।

Satishji's सूत्र-सूचिः

TBD.