Table of Contents

<<2-3-40 —- 2-3-42>>

2-3-41 यतश् च निर्धारनम्

प्रथमावृत्तिः

TBD.

काशिका

षष्ठीसप्तम्यौ वर्तते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक् करनं निर्धारनम्। यतो निर्धारनं ततः षष्ठी सप्तम्यौ विभक्ती भवतः। मनुष्याणाम् क्षत्रियः शूरतमः, मनुष्येषु क्षत्रियः शूरतमः। गवं कृष्णा सम्पन्नक्षीरतमा, गोषु कृष्णा सम्पन्नक्षीरतमा अध्वगानां धवन्तः शीघ्रतमा, अध्वगेषु धावन्तः शीघ्रतमाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

630 यतश्च निर्धारणम्। जातिगुणेति। `यतः' इति `ततः' इति च पञ्चम्यर्थे तसिः। यस्मात्समुदायादेकदेशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं=स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात्षष्ठीसप्तम्यावित्यर्थः। अत्र स्वशब्देन एकदेश उच्यते। तत्र जात्या पृथक्करणमुदाहरति–नृणा नृषु वेति। नृशब्दो मनुष्यसमुदाये वर्तते। उद्भूतावयवभेदविवक्षायां बहुवचनम्। द्विज इति तु जात्यभिप्रायमेकवचनम्। षष्ठीसप्तम्योरवयवावयविभावः संबन्धोऽर्थः, उदाह्मतनिर्धारणविषयत्वरूपश्च। ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तश्रैष्ठ\उfffद्रूपधर्मक इत्यर्थः। गुणेन पृथक्करणमुदाहरति–गवां गोषुवेति। गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थः। क्रियया पृथक्करणमुदाहरति–गच्छतां गच्छत्सु वेति। गच्छत्समुदायैकदेशभूतो धावन्स्वेतरव्यावृत्तशैघ्र्यधर्मक इत्यर्थः। संज्ञया पृथक्करणमुदाहरति–छात्राणामिति। छात्रसमुदायैकदेशभूतो मैत्रनामा स्वेतरव्यावृत्तपटुत्वधर्मक इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.