TBD.
सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर् भवति, षष्ठी च। पूर्वेण षष्ठ्याम् एव प्राप्तायाम् इदम् उच्यते। केन हेतुना वसति, कस्य हेतोर् वसति। येन हेतुना वसति, यस्य हेतोर् वसति। निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्। किंनिमित्तं वसति, केन निमित्तेन वसति, कस्मै निमित्ताय वसति, कस्मान् निमित्ताद् वसति, कस्य निमित्तस्य वसति, कस्मिन् निमित्ते वसति। एवं कारणहेत्वोरप्युदहार्यम्। अर्थग्रहनं च एतत्। पर्यायोपादानं तु स्वरूपविधिर्मा विज्ञायि इति। तेन इह अपि भवति किं प्र्पयोजनं वसति, केन प्रयोजनेन वसति, कस्मै प्रयोजनाय वसति, कस्मात् प्रयोजनाद् वसति, कस्य प्रयोजनस्य वसति, कस्मिन् प्रयोजने वसति।
TBD.
–
600 सर्वनाम्नस्तृतीया च। सर्वनाम्न इति षष्ठी। तदाह–सर्वनाम्नो हेतुशब्दस्य चेति। कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात्सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहति–केन हेतुनेति। सर्वनाम्न इति यदि पञ्चमी स्यात्तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम्।
538 सर्वनाम्नस्तृतीया च। इह सर्वनाम्न इति प्रयोगापेक्षया षष्ठी, पञ्चाम्यां तु हेतुशब्दात्षष्ठीतृतीये न स्यातामित्याशयेनाह—सर्वनाम्नो हेतुशब्दस्य चेति। कस्माद्भवतीत्यपेक्षायामर्थात् सर्वनामहेतुभ्यामिति सम्बध्यते।अत्र व्याचख्युः– यद्यपि सर्वनाम्न इति पदस्य पञ्चम्यन्तत्वेऽपि हेतुशब्दस्य विशेषणत्वे सामानाधिकरण्यादप्युपपद्यत इति न क्षतिः, तथापि विशेष्यत्वे त्वयं विधिर्न स्यादिति बोध्यमिति। निमित्तपर्यायेति। पर्यायग्रहणस्य फलमाह—एवमित्यादिना। एतद्वार्तिकेन `षष्ठी हेतुप्रयोगे', `सर्वनाम्नस्तृतीया च' इति सूत्रद्वयं गतार्थमिति बोध्यम्।
TBD.