Table of Contents

<<2-3-25 —- 2-3-27>>

2-3-26 षष्ठी हेतुप्रयोगे

प्रथमावृत्तिः

TBD.

काशिका

हेतोः प्रयोगः हेतुप्रयोगः। हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर् भवति। अन्नस्य हेतोर् वसति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

599 षष्ठीहेतुप्रयोगे। हेतावित्यनुवर्तते। तदाह–हेतौ द्योत्ये इति। हेतुत्वे द्योत्ये इत्यर्थः। हेतुवाचकात्षष्ठीति फलितम्। `हेतौ' इति तृतीयां बाधित्वा षष्ठी। हेतुप्रयोगे किम् ?। अन्नेन वसति। हेतौ द्योत्ये इति किम् ?। अन्नस्य ह्तोस्तुभ्यं नमः। अत्र युष्मच्छब्दान्न भवति।

तत्त्वबोधिनी

537 षष्ठी हेतु। अत्र `हेतौ' इत्यनुवर्तते, तदाह—हेतौ द्योत्य इति। अन्नस्येति। `हेतौ' इति तृतीयायां प्राप्तायामनेन षष्ठी। हेतुप्रयोगे किम्?। अन्ने वसति। हेतौ द्येत्ये किम्। अन्नशब्दात्षष्ठी यथा स्यादित्येके। `अन्नस्य हेतोस्तुभ्यं नम' इत्यत्र युष्मच्छब्दान्मा भूदित्यन्ये।

Satishji's सूत्र-सूचिः

TBD.