TBD.
हेतौ इति वर्तते। गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर् भवति। जाड्याद् बद्धः, जाड्येन बद्धः। पाण्डित्यान् मुक्तः, पाण्डित्येन मुक्तः। गुणग्रहनं किम्? धनेन कुलम्। अस्त्रियाम् इति किम्? बुद्ध्या मुक्तः। प्रज्ञया मुक्तः।
TBD.
–
594 विभाषा। हेतावित्यनुवर्तते। तदाह–गुणे हेतावस्त्रीलिङ्गे इति। `विद्यमाना'दिति शेषः। जाड\उfffदादिति। जडस्य भावो जाड\उfffद्म्। `गुणवचनब्राआहृणादिभ्यः कर्मणि चे'ति ष्यञ्। ननु धूमादग्निमानित्यादौ कथं पञ्चमी, धूमादेरगुणत्वादित्यत आह–योगविभागादिति। `विभाषा' इति योगो विभज्यते। हेतावित्यनुवर्तते, पञ्चमीति च। हेतौ पञ्चमी वा स्यादिस्यर्थः। ततश्च धूमादग्निमानित्यादि सिद्धम्। ततः-`गुणेऽस्त्रिया'मिति। तत्र विभाषेत्यनुवर्तते पञ्चमीति च। गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः। ततश्च `जाड\उfffदाद्बद्ध' इत्यादि सिद्धम्। ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह–अगुणे स्त्रियां च क्वचिदिति। योगविभागस्य इष्टसिद्ध्यर्थत्वादिति भावः। अत्राऽगुणे उदाहरति–धूमादिति। `अग्निमा'नित्यनन्तरं'`ज्ञायते' इति शेषः। धूमस्य अग्निज्ञानहेतुत्वादत्र धूमस्य अगुणत्वेऽपि हेतुत्वात्ततः पञ्चमीति भावः। स्तिरायमुदाहरति–नास्ति घट इति। `घट' इत्यनन्तरं `इति ज्ञायते' इति शेषः। अनुपलब्धेरपि। उपलब्धिः=ज्ञानम्, तस्या अभावः- अनुपलब्धिः। नञ्तत्पुरुषः। न चार्थाऽभावेऽव्ययीभावः शङ्क्यः, अर्थाऽभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात्।
532 स्त्रियां चेति। `बाहुलकं प्रकृतेस्तनुदृष्टेः' इति वार्तिकनिर्देशोऽपीह ज्ञापकः।
TBD.