Table of Contents

<<2-3-23 —- 2-3-25>>

2-3-24 अकर्तर्यृणे पञ्चमी

प्रथमावृत्तिः

TBD.

काशिका

हेतौ इति वर्तते। कर्तृवर्जितं यदृणं हेतुः, ततः पञ्चमी विभक्तिर् भवति तृतीया अपवादो योगः। शताद् बद्धः। सहस्राद् बद्धः। अकर्तरि इति किम्? शतेन बन्धितः। शतमृणं च भवति, प्रयोजकत्वाच् च कर्तृसंज्ञकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

593 अकत्र्तर्यृणे। `हेतौ' इति सूत्रमनुवर्तते। अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः। फलितमाह-कर्तृवर्जितमिति। कर्तृसंज्ञारहितमित्यर्थः। शताद्बद्ध इति। नियमितकाले प्रत्यर्पणाऽभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः। हेतुतृतीयापवादः। शतेन बन्धित इति। `अधर्मण उत्तमर्णेने'ति शेषः। बन्धेर्हेतुमण्ण्यन्तात्कर्मणि क्तः। अधमर्ण उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः। शतेन ऋणेन प्रयोजककत्र्रा उत्तमर्णेन प्रयोज्यकत्र्रा बन्धनं कारितोऽधर्मण इति ण्यन्तस्यार्थः। अत्र शतमृणं प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञे च, `तत्प्रयोजको हेतुश्चे'त्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात्। ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वाऽपवादत्वात्पञ्चमी स्यात्, अतोऽकर्तरीत्युक्तमिति भावः। शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञचमीति भावः।

तत्त्वबोधिनी

531 पञ्चमी स्यादिति। तृतीयापवादोऽयम्। शतेनेति। शतमिह उत्तमर्णाय धार्यमाणत्वादृणं,`तत्प्रयोजको हेतुश्च' इति चकारात्कर्तृसंज्ञं च। बन्धित इति। ण्यन्ते प्रयोजककर्तुः शतस्य हेतुसंज्ञाप्यस्तीति पञ्चम्यत्र स्यादेवातोऽत्राऽकर्तरित्युक्तमिति भावः। योगविभागादिति। एतच्च `हेतुमनुष्येभ्यः– ' इति सूत्रे पदमञ्जर्यां स्पष्टम्।

Satishji's सूत्र-सूचिः

TBD.