TBD.
कञ्चित् प्रकारं प्राप्तः इत्थम्भूतः। तस्य लक्षणम् इत्थम्भूतलक्षणम्। ततस् तृतीया विभक्तिर् भवति। अपि भवान् कमण्डलुना छात्रमद्राक्षीत्? छात्रेणोपाध्यायम्। शिखया परिव्राजकम्। इह न भवति, कमण्ड्लुपानिश्छात्रः इति, लक्षणस्य समासे ऽन्तर्भूतत्वात्। इत्थम्भूतः इति किम्? वृक्षं प्रति विद्योतनम्।
TBD.
–
558 इत्थंभूतलक्षणे। अयं प्रकार इत्थं, तं भूतः=प्राप्तः-इत्थंभूतः। `भू प्राप्तौ' इति चौरादिकात् `आधृषाद्वा' इति णिजभावे गत्यर्थाकर्मकेत्यादिना कर्तरि क्तः। लक्षणं=ज्ञापकम्। प्रकारविशेषं प्राप्तस्य ज्ञापके इत्यर्थः। तदाह– कंचित्प्रकारमिति। जटाभिस्तापस इति। तपोऽस्यास्तीति तापसः। `तपस्सहरुआआभ्यां विनीनी' `अण्चे'ति मत्वर्थीयोऽण्प्रत्ययः। तापसत्ववति वर्तते। लक्ष्यलक्षणभावस्तृतीयार्थः। तदाह–जटाज्ञाप्येति। नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यं, करणत्वाऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात्।
503 जटानामित्थंभूतलक्षणत्वमुपपदयति—जटाज्ञाप्येति। जटाभिज्र्ञाप्यं यत्तापसत्वं, तद्विशिष्ट इत्यर्थः।
TBD.