Table of Contents

<<2-3-21 —- 2-3-23>>

2-3-22 संज्ञो ऽन्यतरस्यां कर्मणि

प्रथमावृत्तिः

TBD.

काशिका

सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायाम् अन्यतरस्यां तृतीयाविभक्तिर् भवति। पित्रा सञ्जानीते, पितरं सञ्जानीते। मात्रा सञ्जानीते, मातरं सञ्जानीते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

559 संज्ञोऽन्यतरस्यां। संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठ\उfffदेकवचनं `संज्ञ' इति, तदाह–संपूर्वस्य जानातेरिति। द्वितीयापवादोऽयं तृतीयाविकल्पः। संजानीते इति। सम्यक् जानीते इत्यर्थः। `संप्रतिभ्यामनाध्याने' इत्यात्मनेपदम्।

तत्त्वबोधिनी

504 संज्ञो। `ज्ञा अवबोधने'इत्ययमेव गृह्रते न तु `जनी प्रादुर्भावे'इति, तस्याऽकर्मकत्वात्। ङसः प्राग्भागस्य `ज्ञ'इत्यस्य `अल्लोपोऽनः'इत्यल्लोपेन निष्पन्नतया लाक्षणिकत्वाच्चेत्याशयेनाह–जानातेरिति। संजानीत इति। `संप्रतिभ्यामनाध्याने'इति तङ्। कृद्योदे परत्वात् `कर्तृकर्मणोः' इति षष्ठ\उfffदेव, `पितुः संज्ञाता'। आध्याने तु `पित्रा पितरं वा सञ्जानाति'। हरदत्तस्त्वाह–आध्याने तु परत्वादधीगर्थेति षष्ठी–मातुः संजानातीति, तन्न। तत्र शेषाधिकारादिति मनोरमायां स्थितम्।

Satishji's सूत्र-सूचिः

TBD.