Table of Contents

<<2-3-21 —- 2-3-23>>

2-3-22 संज्ञो ऽन्यतरस्यां कर्मणि

प्रथमावृत्तिः

TBD.

काशिका

सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायाम् अन्यतरस्यां तृतीयाविभक्तिर् भवति। पित्रा सञ्जानीते, पितरं सञ्जानीते। मात्रा सञ्जानीते, मातरं सञ्जानीते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

559 संज्ञोऽन्यतरस्यां। संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठ\उfffदेकवचनं `संज्ञ' इति, तदाह–संपूर्वस्य जानातेरिति। द्वितीयापवादोऽयं तृतीयाविकल्पः। संजानीते इति। सम्यक् जानीते इत्यर्थः। `संप्रतिभ्यामनाध्याने' इत्यात्मनेपदम्।

तत्त्वबोधिनी

504 संज्ञो। `ज्ञा अवबोधने'इत्ययमेव गृह्रते न तु `जनी प्रादुर्भावे'इति, तस्याऽकर्मकत्वात्। ङसः प्राग्भागस्य `ज्ञ'इत्यस्य `अल्लोपोऽनः'इत्यल्लोपेन निष्पन्नतया लाक्षणिकत्वाच्चेत्याशयेनाह–जानातेरिति। संजानीत इति। `संप्रतिभ्यामनाध्याने'इति तङ्। कृद्योदे परत्वात् `कर्तृकर्मणोः' इति षष्ठ\उfffदेव, `पितुः संज्ञाता'। आध्याने तु `पित्रा पितरं वा सञ्जानाति'। हरदत्तस्त्वाह–आध्याने तु परत्वादधीगर्थेति षष्ठी–मातुः संजानातीति, तन्न। तत्र शेषाधिकारादिति मनोरमायां स्थितम्।

Satishji's सूत्र-सूचिः

TBD.