TBD.
अङ्गशब्दो ऽत्र अङ्गसमुदाये शरीरे वर्तते, येन इति च तदवयवो हेतुत्वेन निर्दिश्यते। येन अङ्गेन विकृतेन अङ्गिनो विकारो लक्ष्यते, ततस् तृतीया विभक्तिर् भवति। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुन्ठः। अवयवधर्मेण समुदयो व्यपदिश्यते। अङ्गविकारः इति किम्? अक्षि काणमस्य।
TBD.
–
557 येनाङ्गविकारः। अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम्। अर्शाअद्यच्। तस्य विकार इति विग्रहः। येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते। नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति। तदाह–येनाङ्गेनेत्यादिना। अक्ष्णा काण इति। काणशब्दः काणत्ववति वर्तते। संबन्धस्तृतीयार्थः। स च काणत्वेऽन्वेति। तदाह–अक्षिसंबन्धीति। संबन्धश्च विकारप्रयुक्तत्वरूपः। अक्षिविकारप्रयुक्तकाणत्ववानिति यावत्। यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः। द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः।
502 येनाङ्गेति। येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्रते, संनिधानात्। स चाऽर्थद्विकृत एव। न ह्रविकृतेनावयवेन शरीरस्य विकारः संभवति, तदेतदाह–येनाङ्गेन विकृतेनेति। अङ्गिन इति। सूत्रेऽङ्गशब्दोऽर्शाअद्यजन्त इति भावः।
TBD.