Table of Contents

<<2-3-18 —- 2-3-20>>

2-3-19 सहयुक्ते ऽप्रधाने

प्रथमावृत्तिः

TBD.

काशिका

सहार्थेन युक्ते अप्रधाने तृतीया विभक्तिर् भवति। पुत्रेण सहागतः पिता। पुत्रेण सह गोमान्। पितुरत्र क्रियादिसम्बन्धः शब्देन उच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्। सहार्थेन च योगे तृतीयाविधानात् पर्यायप्रयोगे ऽपि भवति, पुत्रेण सार्धम् इति। विना ऽपि सहशब्देन भवति, वृद्धो यूना (1-2-65) इति निदर्शनात्। अप्रधाने इति किम्? शिष्येण सहोपाद्यायस्य गौः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

556 सहयुक्ते। `पृथग्विनानानाभिः' इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह–सहार्थेनेति। पुत्रेणेति। पितुरत्रागमनक्रियासंबन्धः शाब्दः, पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याऽप्राधान्यम्। यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात्तृतीया सिद्धा तथापि `पुत्रेण सह स्थूल' इत्याद्येवास्य मुख्योदाहरणमिति भाष्ये स्पष्टम्। अर्थग्रहणस्य प्रयोजनमाह–एवं साकमिति। ननु `पुत्रेणागतः पिते'त्यत्र सहादिशब्दाऽभावात्कथं तृतीयेत्यत आह–विनापीति। वृद्धो यूना तल्लक्षणश्चेदि'ति सूत्रे सहादिशब्दाऽभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः।

*

तत्त्वबोधिनी

498 सहयुक्ते। `सहेनाऽप्रधाने'इत्येव वाच्ये युक्तग्रहणार्थग्रहणमित्याह– सहार्थेनेति। सहार्थकशब्देनसह–साकं–सार्धमित्यादिनेत्यर्थः। पुत्रेणेति। पितुरेवागमनक्रियासम्बन्धः शाब्दः, पुत्रस्य त्वार्थ इत्येतावतौवाऽस्याऽप्राधान्यमुच्यते। अप्रधानग्रहणं त्युक्तं शक्यम्। न चैवं पितुरपि तृतीयापत्तिः, तत्र प्रातिपदिकार्थमात्रे अन्तरङ्गत्वात्प्रथमोपपत्तेः। न च यत्र प्रथमा न प्राप्नोति `पुत्रेण सह पितुरागमन'मित्यादौ तत्र प्रधानात्पितुरपि तृतीया स्यादतस्तद्वारणायाऽप्रधानग्रहणमावश्यकमिति वाच्यम्। कारकव्भक्तेर्बलीयस्त्वात् `कर्तृकर्मणोः कृति'इति षष्ठ\उfffदा एव तत्र प्रवृत्तेरिति दिक्।

Satishji's सूत्र-सूचिः

TBD.