Table of Contents

<<2-3-11 —- 2-3-13>>

2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायाम् अनध्वनि

प्रथमावृत्तिः

TBD.

काशिका

गत्यर्थानां धातूनां चेष्ताक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारके ऽध्ववर्जिते द्वितीयाचतुर्थ्यौ भवतः। ग्रामं गच्छति, ग्रामाय गच्छति। ग्रामं व्रजति, ग्रामाय व्रजति। गत्यर्थग्रहणं किम्? ओदनम् पचति। कर्मणि इति किम्? अश्वेन व्रजति। देष्टायम् इति किम्? मनसा पाटलिपुत्रं गच्छति। अनध्वनि इति किम्? अध्वानं गच्छति। अध्वनीत्यर्थग्रहनम्। पन्थानं गच्छति। मार्गं गच्छति। आस्थितप्रतिषेधश्चायं विज्ञेयः। आस्थितः सम्प्राप्तः, आक्रान्त उच्यते। यत्र तु उत्पथेन पन्थानं गच्छति, तत्र भवितव्यम् एव चतुर्थ्या, पथे गच्छति इति। द्वितीयाग्रहनं किम्? न चत्र्थ्येव विक्ल्प्येत, अपवादविषये ऽपि यथा स्यात्। ग्रामम् गन्ता ग्रामाय गन्ता। कृद्योगलक्षणा षष्ठी न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

577 गत्यर्थ। शारीरपरिस्पन्दः-चेष्टा। मनसेति। अत्र शारीरचेष्टाया अभावान्न द्वितीयाचतुथ्र्यौ, किन्तु द्वितीयैवेति भावः। `आस्थितप्रतिषेधो वक्तव्यः' इति वार्तिकमर्थतः सङ्गृह्णाति-गन्त्राऽधिष्ठिते इति। गन्त्राक्रान्ते अध्वन्येव अनध्वनीत्ययं निषेध इत्यर्थः। यथा-पन्थानं गच्छतीति। पन्थानं प्राप्नोतीत्यर्थः। अत्र पथः प्राप्त्याश्रयत्वेन गन्त्राधिष्ठित्वान्निषेधः। अस्य वार्तिकस्य प्रयोजनमाह-यदा त्विति। उत्पथादिति। अमार्गादित्यर्थः। ल्यब्लोपे पञ्चमी। उज्जयिनीं प्राप्तुं प्रस्थितो मोहात्तन्मार्गात्प्रच्युतो मार्गान्तरं प्रविष्टः। तं परित्यज्य पुनरुज्जयिनीमार्ग आक्रमितुमिष्यते, तदाऽनध्वनीति निषेधाऽभावाच्चतुथ्र्यपि भवत्येवेत्यर्थः। तादृशं लक्ष्यं दर्शयति–उत्पथेन पथे गच्छतीति। `उत्पथेने'त्यनन्तरं `गन्तुमशक्त' इति शेषः। उत्पथेन उज्जयिनीं प्राप्तुमशक्त उत्पथं परित्यज्य उज्जयिनीमार्गं प्रवेष्टुं तदीयं मार्गमनुसरतीत्यर्थः। अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाऽभावादनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः। इति चतुर्थी।

तत्त्वबोधिनी

518 गत्यर्थकर्मणि। गत्यर्थेति किम्?। ओदनं पचति। कर्मणीति किम्?। अ\उfffदोन व्रजति। `अनध्वनि' इत्यत्राध्वनीति न स्वरूपग्रहणम्। तथा हि सति `अनध्वनः' इत्येवाऽवक्ष्यत्। किं त्वर्थग्रहणं, सप्तमीनिर्देशात्, कर्मणीत्यनेन सामानाधिकरण्यात्। अर्थेस्यैव हि कर्मत्वं संभवति न शब्दस्वरूपस्य, तेनाऽध्ववचिनां सर्वेषामेव निषेधः। तथा च वार्तिकम्—अध्वन्यर्थग्रहणमिति। गन्त्राधिष्ठित एवेति। `आस्थितप्रतिषेधो वक्तव्यः' इति वार्तिकादिति भावः। आस्थितः–संप्राप्तः। पन्थानां गच्छतीत्यत्र हि पन्थाः प्राप्त एवेति न पक्षे चतुर्थी। यदा त्वप्राप्तत्वेन विवक्षा तदा पक्षे भवत्येव सा। इह अनध्वनीत्यपनीय `असंप्राप्ते' इति पूर्यते। तेन `स्त्रियं गच्छती'त्यत्र स्त्री प्राप्तैवेति न चतुर्थी। अत्र व्याचक्षते–`अजां नयति ग्राम'मित्यत्र तु न भवत्येव चतुर्थी, अगत्यर्थत्वात्। आक्षेपादिना ह्रत्र प्रतीयते गतिर्न त्वसौ नयतेरर्थः, प्रापणवाचित्वादिति। `गत्यर्थकर्मणि [चतुर्थी] वा' इति वक्तव्ये द्वितीयाग्रहणमपवादविषयेऽपि द्वितीया यथा स्यादित्येतदर्थं, तेन `ग्रामं गन्ते' त्यत्र कृद्योगलक्षणा षष्ठी न भवतीति वृत्तिकृतोक्तम्। इति चतुर्थी।

Satishji's सूत्र-सूचिः

TBD.